________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
[दोहालक्षणं प्रथमं पठित्वा काव्येनार्धं निरुक्त्वा, कुण्डलिकां बुधजना जानीत उल्लालेन संयुक्ताम्, उल्लालेन संयुक्तं यमकं शुद्धं तल्लभते, चतुश्चत्वारिंशदधिकं शतं मात्राः सुकविना दृढबन्धः कथ्यते, चतुश्चत्वारिंशदधिकं शतं मात्रा यस्यास्तनुभूषणशोभा,
तां कुण्डलिकां जानीत प्रथमं यत्र पठ्यते दोहा ॥] प्रथमं द्विपथालक्षणं पठित्वा काव्येनार्ध निरुक्त्वा कुण्डलिकां जानीत । कीदृशीम् । उल्लालेन संयुक्ताम् । उल्लालनमेव उल्लालः परावर्तनं, तेन युक्तमेव पदं पुन: पठेदित्यर्थः । ननु षट्पदवदुल्लालेन छन्दसा युक्तामिति, तस्मात्सिंहावलोकनन्यायेन निकटवर्तिना पदेन शुद्धं यमकं श्लाघ्यते । तत्राष्टसु पदेषु कियत्यो मात्रा इत्याकाङ्क्षायामाह-चतुश्चत्वारिंशदधिकं शतं मात्रा यत्र भवन्ति । सुकविना दृढो बन्धः कथ्यते । दोहाया अष्टचत्वारिंशत्, काव्यस्य षण्णवतिमिलित्वा चतुश्चत्वारिंशदधिकशतं कलाः तनुभूषणशोभा यस्यास्तां कुण्डलिकां मुणहु जानीत । एतेनाष्टपदी कुण्डलिकेति तात्पर्यार्थः । तथा चोक्तं भूषणे-'कुण्डलिका सा कथ्यते प्रथमं दोहा यत्र । रोलाचरणचतुष्टयं प्रभवति नियतं तत्र ॥ प्रभवति नियतं तत्र पदं प्रति सुललितयमकम् । अष्टपदी सा भवति विविधकविकौशलगमकम् ॥ अष्टपदी सा भवति सुरिवतपण्डितमण्डलिका । कुण्डलिनायकभणितविबुधकर्णे कुण्डलिका ॥ इदमप्युदाहरणम् ॥ तामुदाहरति-(जहा) यथा
'ढोल्ला मारिअ ढिल्लिमहँ मुच्छिव मेच्छसरीर, पुर जज्जल्लामंतिवर चलिअ वीर हम्मीर, चलिअ वीर हम्मीर पाअभर मेइणि कंपइ, दिगमग णह अंधार धूलि सुररह आच्छाइहि, दिगमग णह अंधार आण खुरसाणुकउल्ला, दरमरि दमसि विपक्खमारु ढिल्लीमहँ ढोल्ला ॥' ढोला मारिता ढिल्लीमध्ये मूञ्छितं म्लेच्छशरीरैः, पुरो जज्जलमन्त्रिवरश्चलितो वीरो हम्मीरः,
चलितो वीरो हम्मीरः पादभरेण मेदिनी कम्पते, १. अत्र वृत्तभङ्गभयात्संहिता न विहिता. २ ढोलनाम्ना प्रसिद्धो वाद्यविशेषः. ३ सांप्रतं 'दिल्ली' 'देहली' इति वा नाम्ना ख्याता नगरी. 'दिल्लीवल्लभपाणिपल्लवतले' इति पण्डितराजः.