________________
काव्यमाला। चंपारणकंपा पव्वअझम्पा उत्थी उत्थी जीवहरे
कासीसरराणा किअउ पआणा विज्जाहर भण मंतिवरे ॥' [भयेन पलायिता वङ्गा भग्नाः कालिङ्गास्तैलङ्गा. रणं मुक्त्वा चलिताः, महाराष्ट्रा धृष्टा लग्नाः काष्ठाः सौराष्ट्रा भयेन पादे पतिताः, चम्पारण्यानां कम्पः पार्वतीया झम्पा उपर्युपरि जीवगृहे, काशीश्वरराज्ञि कुर्वति प्रयाणं विजयहरो भणति मन्त्रिवरः ॥]
कश्चित्कविः काशीश्वरस्य राज्ञो विजयप्रयाणमनुवर्णयति-वङ्गा वङ्गदेशीया भयेन पलायिताः । अथ च कालिङ्गाः कलिङ्गदेशस्थाः, तेऽपि भग्नाः । तैलङ्गा अपि रणं त्यक्त्वा चलिताः । धृष्टा महाराष्ट्राः । एकत्रीभय लग्नाः काष्ट्राः । लग्ना दिश इत्यर्थः । सौराष्ट्राः भयेनागत्य पादे पतिताः । अथ च चम्पारण्यदेशीयानां कम्पो जातः । पार्वतीया उत्थी उत्थी उपर्युपरि जीवानां मनुष्याणां हरेहे एव झम्पा निलीनाः । जीवगृहे गोप्यस्थले झम्पा निलीना इति वा । एतत्प्रतापतपनभयादुलका इव स्थिता इत्यर्थः । उद्दवणिका यथा-Is, us, ss, us, ss, ss, us, us, s, ss, ss, us, ss, ss, ||s, us, ss, us, ss, us, ss, ss, ss, us, ss, us, su, us, ss, su, ॥s, us. अथ कुण्डलिका छन्दः
दोहालक्खण पढम पढि कव्वह अद्ध णिरुत्त, कुंडलिआ वुअअण मुणहु उल्लाले संजुत्त, उल्लाले संजुत्त जमक सुद्धउ स लहिज्जइ, चउआलह सउ मत्त सुकइ दिढबंधु कहिज्जइ, चउआलह सउ मत्त जासु तणुभूसणसोहा, तं कुंडलिआ मुणहु पढम जह पढिअइ दोहा ॥ ११७ ॥
१. 'सुकविदृढबन्धुः (पिङ्गलः) कथयति' इति रविकरव्याख्या. २. 'अथ गुणालंकारी कथयति-यस्यास्तनौ शरीरे भूषणशोभा हसन्ति । भूषणमलंकारः। शोभा कान्तिः । गुणः इति शेषः । द्विवचनस्य बहुवचनं नित्यम् । तेन भूषणशोभे यस्यास्तनौ हास्यं कु
ते । कियत्संख्याकगुणशोभा इत्याह-चतुश्चत्वारिंशन्मात्रा । अत्र प्राकृते पूर्वनिपातानियमः । तेन व्यवहितेनापि मात्राशब्देनान्वयः ।' इति रविकरव्याख्या. तथा चैवं छेदः-'चउआल-हसउ-मत्त-जासु-तनु-भूसणसोहा'.