________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
[प्रथमतृतीयपञ्चमपदेषु मात्राः षोडश यस्याः ।
समे द्वादशैकादश तालकिनी भण ताम् ॥] प्रथमतृतीयपश्चमपदेषु षोडश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, अन्ते दोहा यस्यास्तां तालकिनी भणेति । एतेषामुदाहरणानि सुबुद्धिभिः स्वयमूह्यानि । इति रड्डाप्रकरणम् ॥
अथ पद्मावती छन्दःभणु पउमावत्ती ठाणं ठाणं चउमत्ता गण अट्ठाआ धुव कण्णो करअलु विप्पो चरणो पाए पाअ उकिठाआ । जइ पलइ पओहर किमइ मणोहर पीडइ तह णाअकगुणो पिअरह संतासइ कइ उव्वासइ इय चंडालचरित्त गणो ॥११६ ॥ [भण पद्मावती स्थाने स्थाने चतुर्मात्रिका गणा अष्टौ
ध्रुवं कर्णः करतलो विप्रश्चरणः पादे पाद उत्कृष्टाः । - यदि पतति पयोधरः किमियं मनोहरा पीडयति तथा नायकगुणं
पितरं संत्रासयति कविमुद्वासयत्ययं चण्डालचरित्रो गणः ॥] यस्याः स्थाने स्थाने चतुर्वपि चरणेषु चतुर्मात्रिकाश्चतुष्कला गणा अष्टौ भवन्ति । तां पद्मावती भण । के के गणा इत्याह-कर्ण: गुरुद्वयात्मको गणः । करतलः गुर्वन्तश्वतुष्कलः । विप्रः चतुर्लघ्वात्मको गणः । चरणः आदिगुरुभंगणाख्यः । ध्रुवं निश्चितम् । एत एव गणाः पौर्वापर्येण वसुसंख्याकाः पादे पादे उत्कृष्टाः कार्याः । अत्र 'ध्रुवधम्मो' इति क्वचित्पाठः । तत्र धर्मो युधिष्ठिरः, तेन कुन्तिपुत्रत्वाद्गुरुद्वयं विवक्षितम् । अत्र यदि प. योधरो जगणः पतति तदा किमियं मनोहरा, (मनोहरा) न भवतीत्यर्थः । अथ च यस्य कवित्वं क्रियते तस्य नायकस्य तथा गुणं पीडयति, पितरं त्रासयति, कवित्वस्य पिता क- - विरेव विवृणोति-कविमुद्वासयति, तस्मादत्र छन्दसि अयं जगणश्चण्डालचरित्रः सर्वथा त्याज्यः । उक्तं च भूषणे-'यद्यष्टचतुष्कलगणनिर्मितपदकरपदकर्णद्विजविहिता सा पद्मावतिका विबुधसुमहिता जगणविरहिता सुकविहिता। इह दशवसुभुवनैर्भवति विरामः स. कलाभिमतफलाय तदा फणिनायकपिङ्गलभणितसुमङ्गलरसिकमनःसंविहितमदा ॥' पद्मावतीमुदाहरति-जहा (यथा)-. 'भअभज्जिअ वंग भंगु कलिंगा तेलंगा रण मुत्ति चले मरहट्ठा धिट्ठा लग्गिअ कट्ठा सोरट्ठा भअ पाअ पले ।
।
१. पद्मावती.