________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
अथ च सर्वदेशे पिकः पञ्चमं कूजति । शीतलपवनो मलयानिलः मलयकुहरस्थनववल्लीभवतां प्रेरयित्वा लघु मन्दं वहति । एवं वसन्ते जाते सति चित्तं च मनोभवशरो हन्ति । दूरे दिगन्तरे कान्तः । कथमिदानीमात्मानं स्थापयिष्यामि । एवं पतितं दुरन्तं दुःखमिति । एतस्या एवान्यत्र नवपदमिति नामान्तरम् । उट्टवणिका यथा – II, III, ऽ ॥, । ऽ।, ॥ ऽ, IS I, III, SI, SII, ISI, SII, III, III, II, III, III, ISI, SII, SIIS, II, III, SIIS, IIS, I, SIIS, IIS, III, IIIIII, IIS, I, अथैतस्य छन्दसः सप्त भेदा भवन्तीति नामतस्तानुद्दिशति - करही गंदा मोहिणी चारुणि तह भद्द |
असेण तालंक पिअ सत्त वत्थु णिष्कंद ॥ १०८ ॥ [करभी नन्दा मोहिनी चारुसेना तथा भद्रा ।
राजसेना तालङ्किनी प्रिये सप्त वस्तूनि निष्पन्नानि ॥]
करभी, नन्दा, मोहिनी, चारुसेना, भद्रा, राजसेना, तालङ्किनी, इति प्रिये सप्त भेदा वस्त्वपरनामकरड्डाच्छन्दसो निष्पन्नाः । दोहा च्छन्दः ॥
तेषां लक्षणमाह -
पढमतीअपञ्चमपअह तेरह मत्ता जासु |
बीअत्थएअरहहिँ करहिं भणिज्जसु तासु ॥ १०९ ॥
[प्रथमतृतीयपञ्चमपदेषु त्रयोद शमात्रा यस्याः ।
द्वितीयचतुर्थयोरेकादश करहीं भणति ताम् ||]
प्रथमतृतीयपञ्चमपदेषु यस्यास्त्रयोदश मात्रा: । अथ च द्वितीयचतुर्थयोरेकादश मात्रा: ।
एवं पश्च पदानि, एतदग्रे दोहा यस्यास्तां करभीं भणति । दोहा च्छन्दः ॥ पढमती पञ्चमपअह मत्त होइ दहचारि ।
बीअचउत्थएआरहहिँ णंद भणिज्ज विआरि ॥ ११० ॥ [प्रथमतृतीयपञ्चमपदेषु मात्रा भवन्ति चतुर्दश ।
द्वितीयचतुर्थयोरेकादश नन्दां भणति विचार्य ॥ ]
यस्याः प्रथमतृतीयपश्चमपादेषु चतुर्दश मात्रा: । द्वितीयचतुर्थयोरेकादश, तां विचार्य दोहां च दत्वा नन्दां भणति । दोहा च्छन्दः ॥
पढमतीअपञ्चमपअह् णव दह मत्ता जासु ।
बीच उत्थरआरहहिँ तं मोहिणि मुणिआसु ॥ १११ ॥
१. 'कलभी' रवि ० . २. 'चारुसेनी' रवि ० ३ 'राजसेनः ' रवि ०.४. 'ताळङ्कः' रवि ०..
•