________________
काव्यमाला।
विसर्जयन्तु । चतुर्थे चरणे विचारयित्वा कार्यः । उट्टवणिकां विधाय तुरीयचरणे एकं लघुमाकृष्य गृह्णन्तु । तेन चतुर्थे चरणे एकादशैव कलाः । अतस्तृतीयो गणस्त्रिकलस्त्रिलध्वात्मको भवति, इत्येवं पञ्चसु पादेषु उद्ववणिकां कृत्वा अष्टषष्टिमात्राश्च पूरयित्वा वस्तुभूतं तच्छन्दसो नाम पिङ्गल: करोति । 'वस्तु' इत्येतस्यैव नामान्तरम् । वापां (?) स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो नाम राजा रड्डामिति भणति । षट्पदी च्छन्दः ॥ तामुदाहरति-जहा (यथा)
'भमइ महुअर फुल्ल अरविंद, णवकेसुकाणण फुल्लिअ, सव्वदेस पिअ राव वुल्लिअ, सिअल पवण लहु वहइ, मलअकुहर णउवल्लि पेल्लिअ, चित्तम णोभउसर हणइ, दूर दिगन्तर कंत, केपरि अप्पउ वारिहउ, इम परिपेलिअ दुरंत ॥ [भ्रमति मधुकरः स्फुटितमरविन्दं, नवकिंशुककाननं पुष्पितं, सर्वदेशे पिको रावं कूजति, शीतलः पवनो लघु वहति, मलयकुहरे नववल्ली प्रेरयित्वा, चित्तं मनोभवशरो निहन्ति, दूरे दिगन्तरे कान्तः, केन प्रकारेणात्मानं स्थापयिष्यामि,
एवं परिपतितं दुरन्तम् ॥] काचित्प्रोषितभर्तका समागतं वसन्तमवलोक्यात्मानं शोचति-यथा हे सखि, मधुकरो भ्रमरो भ्रमति । स्फुटितमरविन्दम् । विकसितमित्यर्थः । नवकिंशुककाननं च पुष्पितम् ।
१. 'सुप्णि' रवि०. 'श्रूयते' इति तच्छाया. रमणीयश्चायं पाठः. २. 'परिमिलिअ' रवि०. 'परिमिलितं' इति तच्छाया.