________________
६२.
काव्यमाला ।
लासिनि प्रतिपदमन्ते यमकविलासिनि । अडिलनामपयोधरधारिणि शेषे नियतलघुद्वय
धारिणि ॥ इदमप्युदाहरणम् ॥ तामुदाहरति - जहा (यथा ) -
'जेण आसावरि देहा दिन्हउ
सुत्थिर डाहररज्जा लिन्हउ ।
कालंजर जिण कित्ती अप्पिअ धण आवज्जिअ धम्म अपिअ || ' [ येनासावरीदेशो दत्तः
सुस्थिरं डाहरराज्यं गृहीतम् । कालंजरे येन कीर्तिरर्पिता धनमावर्ज्य धर्मेऽर्पितम् ॥]
येन कर्णेन [आ]सावरीदेशः मार्गणेभ्यो दत्तः । येन च सुस्थिरं डाहरराज्यं पार्वतीयान्विजित्य गृहीतम् । येन च कालंजरे दुर्गे कीर्तिः स्थापिता । येन च धनमावर्ज्य धर्मार्थमेवार्पितमर्थिभ्यः । स कर्णो जयतीति वाक्यशेषः ॥ उट्टवणिका यथा - ॥s, SI, SS, S॥, sll, SII, ss, si, ss, III, ss, s॥, ॥s, s॥, s॥, s॥ अथ पादाकुलकं छन्द:
लहु गुरु एक्क णिम्म गहि जेहा, प प लेक्खह उत्तमरेहा । सुकर फर्णिदह कंठहवलअं, सोरहमत्ता पाआकुलअम् ॥ १०४ ॥ [लघुगुर्वोरेको नियमो नहि यत्र, पदे पदे लिख्यन्त उत्तमरेखाः । सुकवेः फणीन्द्रस्य कण्ठवलयं, षोडशमात्रं पादाकुलकम् ॥]
यत्र लघूनां गुरूणां वा एकोऽपि नियमो नास्ति । पदे पदे उत्तमरेखा भवन्ति । अन्तरान्तरा लघुर्गुरुश्च भवतीत्यर्थः । अथ च सुकवेः फणीन्द्रस्य पिङ्गलस्य कण्ठवलयं केण्ठाभरणं षोडशमात्रं पादाकुलकं छन्दो भवतीति । भूषणेऽपि - 'अक्षरगुरुलघुनियम
१. याचकेभ्यः. २. ‘अत्यन्तानुरागात्फणीन्द्रेण ग्रैवेयकत्वेन धृतमिति प्रसिद्धिः । सर्पाणां कण्ठे वलयाकारा रेखा भवन्तीति ।' इति रविकर व्याख्या विशेष : .