________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
गुरुविक्कम विक्कम जिणि जुज्झ, ता कण्णपरकम कोइ बुज्झ ॥ [येन गञ्जितो गौडाधिपती राजा, उद्दण्ड उत्कलेशो भयेन पलायितः । गुरुविक्रमो विक्रमो जितो युद्धे, ।
तस्मात्कर्णपराक्रमं कोऽपि बुध्यते ॥] कश्चित्कविः कर्ण स्तौति-कर्णस्य पराक्रम कोऽपि बुध्यते । अपि तु न कोऽपि । येन गञ्जितो गौडाधिपतिः । यस्य भयेन उद्दण्ड उद्गतदण्डोऽपि उदृइसो उत्कलेशः प. लायितः । गुरुर्विक्रमो यस्यैवं विक्रमो येन युद्धे जितः । ता तस्मात्कस्तव पराक्रमं जानीयादिति भावः । उद्ध्वणिका यथा-ss, us, su, Isi, ss, Isi, um, is, us, ॥s, m, ISI, ss, us, us, ISI. अथाडिल्लाछन्दः
सोरह मत्ता पाउ अडिल्ल ह . बेवि जमक्का भेउ अडिल्लह । होइ ण पओहर किं पि अडिल्लह सुपिअ अन्त भण छन्द अडिल्लह ॥ १०३ ।। [षोडश मात्राः पादे अडिल्ल ह द्वे अपि यमके भेदं कलयतः । भवति न पयोधरः कथमप्यप्रयोजकः
सुप्रियोऽन्ते भण च्छन्दोऽडिल्लम् ॥] अत्र षोडश मात्राः पादे लभ्यन्ते । द्वयोरपि दलयोर्यमको भवत इति कलया भवति । न पयोधरो जगणः कथमपि । अन्तेषु चतुर्वपि चरणेषु सुप्रियो लघुद्वयात्मको गणो भवति यत्र तच्छन्दोऽडिल्लानामकमित्यर्थः । भूषणेऽप्युक्तम्-'छन्दसि षोडशकले वि.
१. 'बुध्यते' इति देवादिकस्य बुधधातोः कर्तरि रूपम्. २. रविकरव्याख्याने 'डि'वर्णस्थाने 'लि' इति वर्णः प्रतिचरणं दृश्यते. तथा च "द्वे यमके भेदं कलयतः। कलिवली कामधेनू । 'इल्लडिल्लौ स्वार्थे' इतीलप्रत्ययः । 'हहिजेराः पादपूरणे' इति हप्रत्ययः । 'प्रायोलोपः' इति प्रायोवचनादादावपि ककारलोपः । पयोधरः कीदृक् । अलिल्लह अप्रयोजकः । अप्रयोजकवाचकादलंशब्दादिल्लप्रत्ययो हप्रत्ययश्च ।" इति तळ्याख्यानिष्कर्षः..