________________
काव्यमाला।
षट्पदच्छन्दसि नामसंख्यानयनप्रकारान्तरमाह
सत्ते सव्वहि होइ लहु अद्ध विसज्जहि ताम । तहिंवि विसज्जहि एकसर एहि पमाणे णाम ॥ १०१॥ [यावन्तः सर्वे भवन्ति लघवोऽर्धे विसर्जय तासु ।
तास्वपि विसर्जयैकशरमेतत्प्रमाणि नामानि ॥] यावन्तः सर्वे लघवो भवन्ति । द्विपञ्चाशदधिकशतकला इत्यर्थः । तासु कलास्वर्ध विसर्जय । अवशिष्टा षट्सप्ततिः । तास्वपि शरसंख्यां विसर्जय । एवं सति यावत्योऽव. शिष्यन्ते । प्रकृते एकसप्ततिः । एतत्प्रमाणि नामानीति दोहाछन्दः । एतेषामुदाहरणान्युदाहरणमअरीतोऽवगन्तव्यानि क्रमेण । षट्पदं निवृत्तम् ॥ अह पहाडिआ (अथ पजटिका छन्दः)
चउमत्त करहु गण चारि ठाँइ, ठवि अन्त पओहर पाँइ पाँइ । चउसट्ठि मत्त पज्झरइ इन्दु, ऍम चारिपाअ पज्झडिअ छन्दु ॥ १०२॥ [चतुर्मात्रिकान्कुरुत गणांश्चतुःस्थाने, स्थापयित्वान्ते पयोधरं पादे पादे । चतुःषष्टि मात्राः प्रक्षरतीन्दु
रेवं चतुष्पादैः पजटिका छन्दः ॥] चतुर्मात्रिकश्चितुरो गणांश्चतुःस्थाने चतुश्चरणे स्थापयित्वा नियमेन पयोधरं चतुष्कलं चतुर्थ स्थापयित्वा । एवं पदचतुष्टयेन चतुःषष्टिभिः(ष्टया) मात्राभिः पज्जटिका भवति । यथा इन्दुश्चन्द्रमाः षोडशकलाभिरमृतं क्षरति तथा षोडशमात्राभिरेकचरणोऽस्याः पीयूषवर्षी भवतीति भावः । तथा सति षोडशकलैव पज्जटिकानामकं छन्दो निष्पाद्यते इति । भूषणेऽप्युक्तम्-‘चत्वारि चतुष्कलानि देहि तत्रापि जगणमन्ते विधेहि । भणिता फणिनायकपिङ्गलेन पज्जटिकेयं षोडशकलेन ॥ इदमप्युदाहरणम् ॥ पज्जटिकामुदाहरति-जहा (यथा)
'जेण] गंजिअ गौडाहिवइ राउ,
उद्दण्ड उट्टइसों भअ पएउ । १. 'छन्दःप्रशंसामाह-इदं श्रुत्वा इन्दुश्चन्द्रमाः प्रस्विद्यते । अमृतं क्षरतीत्यर्थः ।' इति रविकरव्याख्या.