________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
[जायार्धाङ्गे शीर्षे गङ्गा लुलन्ती, सर्वाशाः पूरयन्ती दुःखानि त्रोटयन्ती, नागराजो हारो दिग्वासोऽन्तः, वेताला यस्य सङ्गे दुष्टान्नाशयन्, नृत्यन्नुत्साहेन तालैर्भूमिः कम्पिता,
यस्मिन्दृष्टे मोक्षः स युष्माकं सुखदः ॥] यस्य शिवस्य जाया पार्वती अर्धाङ्गे । तिष्ठतीति शेषः । यस्य शीर्षे गङ्गा लुठति । कीदृशी । सर्वाशाः पूरयन्ती । दुःखानि त्रोटयन्ती । यस्य नागराजो हारः । यस्य दिग्वासोऽन्तः । दिगेव वाससो वस्त्रस्यान्तोऽश्चलं यस्य । यस्य सङ्गे वेतालाः । तिष्ठन्तीति शेषः। पिशाचसहचर इत्यर्थः । दुष्टान्नाशयन् , उत्साहेन नृत्यन् ताण्डवं कुर्वन् , तालैर्भूमिः कम्पिता येन । अथ च यस्मिन्दृष्टे मोक्षः स शिवो युष्माकं सुखदोऽस्तु ॥ अथैकसप्ततिभेदानयनप्रकारमाह
चउआलीस गुरु कव्वके छहवीसउ उल्लाल । जे गुरु टुइइ लहु वढइ एहत्तरि पत्यार ॥ ९७ ॥ [चतुश्चत्वारिंशद्गुरवः काव्यस्य षड्विंशतिरुल्लालस्य ।
यदि गुरुस्तुव्यति लघुर्वर्धते एकसप्ततिप्रस्तारः ॥] चतुश्चत्वारिंशद्गुरवः काव्यस्य, षड्डिशतिरुल्लालायाः संभूय सप्ततिः । तेषु यदैकैककमेण गुरुहसति, लघुद्वयं वर्धते तदा सप्ततिसंख्याका भेदा भवन्ति । सर्वशेषे च सर्वलवा'त्मकमेकम् । एवमेकसप्ततिप्रस्तारः । दोहा छन्दः ॥ तदेवाह
अजअ बेआसी अक्खरउ गुरु सत्तरि रविरेह । एकक्खर बढ गुरु घटइ इम परिलहुआदेह ॥ ९८ ॥ [अजये द्वयशीतिरक्षराणि गुरवः सप्तती रविरेखाः ।
एकमक्षरं वर्धते गुरुर्दसति अनया परिपाट्या लघुकान्देहि ॥] अजयनाम्नि षट्पदे व्यशीत्यक्षराणि । तत्र विवेकः-सप्ततिर्गुरवः, रविसंख्याका रेखा लघवः, ततो यावहिपञ्चाशदधिकशताक्षरं तावदेकैकमक्षरं सर्वलघुप्रभेदान्तं वर्धते । एको गुरुसति । लघुद्वयं वर्धते । अनया परिपाट्या यावत्सर्वलघुर्भवेत्तावल्लघुकान्देहि । इति प्रथमो भेदः ॥
१. मूलपुस्तके 'अथ शाल्मलिप्रस्तारः' इति वर्तते.
-