________________
काव्यमाला।
विप्रो भवति द्वात्रिंशता क्षत्रियं द्विचत्वारिंशता कुरुत, अष्टचत्वारिंशता लघुमिवैश्यं शेषैः शूद्रं सुश्लाध्यम्, चतुरधिका पदे विंशतिर्मात्राः षण्णवतिं स्थापयत, पञ्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरुत, षड्रिंशतिमुल्लालस्यैकीकृत्य द्विपादस्य षट्पदं जानीत,
समवर्ण सदृशसमदोषगुणं नामान्येकसप्ततिं जानीत ॥] द्वात्रिंशलघुभिर्विप्रो भवति । ततो द्विचत्वारिंशद्भिर्लघुकैः षट्पदं क्षत्रियो भवति । ततोऽष्टचत्वारिंशदवधिकैर्वैश्यो भवति । उर्वरितैः शेषैः शूद्रो भवति । इति तं सलहिज्जसु सुलाध्यं कुरु । उल्लालरहितायाश्चतुष्पद्याः पदे चतुरधिकां विंशतिं मात्राः स्थापय । एवं च पिण्डसंख्यां मात्राषण्णवतिरूपां पादचतुष्टये स्थापय । ततश्च पश्चचत्वारिंशन्नामभिः काव्यलक्षणं कुरु । अथोल्लालच्छन्दसः षड्डिशतिगुरुनेकीकृत्य पादद्वयाभ्यां षट्पदं जानीत । समवर्ण सदृशदोषगुणम् । यथा काव्यस्य दोषगुणास्तथा षट्पदस्यापि भवन्तीत्यर्थः । तथा च षट्पदस्यापि एकसप्ततिनामानि परिशृणु । पश्चचत्वारिंशन्नामानि काव्यस्य, षड्विंशतिरुल्लालायाः संभूय एकसप्ततिरिति । षट्पदी छन्दः ॥ अथोल्लालालक्षणम्
तिणि तुरंगम तिअल तहँ छहचउतिअ तहँ अंत । इमि उल्लाला उट्टवहु विहुदल छप्पणमंत ॥ ९६ ॥ [त्रयस्तुरंगमास्त्रिकलस्ततः षट्चतुस्त्रयस्ततोऽन्ते ।
अनेनोल्लाला ........ द्विदलाभ्यां षट्पञ्चाशन्मात्राः ॥] प्रथमं तुरंगमास्त्रयश्चतुष्कलगणास्त्रयः, ततस्त्रिकलः, तदनन्तरं षट्कलः, ततः चतु. कलः, ततस्त्रिकल:, संभूयाष्टाविंशतिः कलाः प्रथमचरणे । एवमुल्लालामुट्टवणिकया संक्षिप्तां कुर्वन्तु । तथा च द्वाभ्यां दलाभ्यां षट्पश्चाशन्मात्रा भवन्ति । दोहाच्छन्दः ॥ अथ शाल्मलीप्रस्तारं दर्शयिष्यंस्तत्र पूर्व सर्वगुरुभेदमुदाहरति-जहा (यथा)
'जाआधंगे सीसे गङ्गा लोलन्ती, सव्वासा पूरंती दुःखा तोटंती, णाआराआ हारा दीसा वासंता, वेआला जासंगे दुव्वा णासंता, णाचंता उच्छाहे ताले भूमी कंपाले, जादिढे मोक्खाआ सो तुह्माणं सुक्खादो ।'