________________
१ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । अथ षट्पदस्य काव्यस्य दोषानाह
पअह असुद्धउ पंगु हीण खोडउ पभणिज्जइ, मत्त ग्गल वाकूल सुण्ण फल कण्ण सुणिज्जइ, झलवज्जिअ तह वहिर अंध लंकारह रहिअउ, बूल छंदु उट्टवण अत्थ विणु दुव्वल कहिअउ, डेरउ हठ्ठअक्खरहिँ होइ काण गुण सव्वहिँ रहिअ, सवंगसुद्ध समरूअगुण छप्पअदोसॅ पिंगलु कहिअ ॥१४॥ [पदे अशुद्धः पङ्गु_नः खञ्जः प्रभण्यते, मात्राधिको वातूलः शून्यं फलं कर्णेन श्रूयते, झलवर्जितस्तत्र बधिरोऽन्धोऽलंकाररहितः, वूलं छन्द उद्दवणिकायामर्थेन विना दुर्बल: कथ्यते, डेरं हठाक्षरैर्भवति काणो गुणैः सर्वै रहितः,
सर्वाङ्गशुद्धः समरूपगुणः षट्पददोषः पिङ्गलेन कथितः ॥] पदे चरणे अशुद्धः प्राकृतव्याकरणदुष्टः परित्यभिधीयते । हीनमात्रया खञ्जो भण्यते । मात्राधिको वातूलः । तेन शून्यं फलं कर्णेन श्रूयते । तथा झकारलकाराभ्यां वर्जितो बधिर इत्यभिधीयते । उपमाद्यलंकाररहितोऽन्धोऽभिधीयते । उवणिकायां यदा पञ्चकलस्त्रिकलो वा भवति तदा वूलः । मूक इत्यर्थः । अर्थेन विना दुर्बलः कथ्यते। हठाकृ. ष्टकठोराक्षरैः डेरः । केकर इत्यर्थः । श्लेषादिगुणरहितः काणः । सर्वैरङ्गैः शुद्धः समरूपगुणः षट्पददोषः पिङ्गलेनैवं कथितः । इति षट्पदच्छन्दः ॥
अथ लघुसंख्याभेदेन वर्णमुपदिशन्प्रतिपदमात्रासंख्यां पिण्डसंख्यां च कथयन् षट्पदस्याप्येकसप्ततिर्भवन्तीत्याह----
विप्प होइ बत्तीस खत्ति बेआल करिज्जसु, अठतालिस लहु वेस सेस सुद्दउ सलहिज्जसु, चउअग्गल पअ वीस मत्त छण्णवइ ठविज्जसु, पचतालीसह णाम कव्वलक्खणह करिज्जसु, छहवीस उल्लाल एककइ विण्णिपाअ छप्पअ मुणहु,
समवण्ण सरिससमदोसगुण णाम एहत्तरिउ मुणहु ॥ ९५ ॥ १. “वोलः, इति देशीयभाषा । भग्नमित्यर्थः" रवि०.