________________
काव्यमाला ।
साहिहम्मीरवचनं गृहीत्वा, उडुपेऽन्तरिक्षे नभः पथे भ्रमामि । खङ्गेनानेन रिपुशीर्षाणि प्रतिक्षयामि । संनाहेनैव संनाहमपहस्तयित्वा पर्वतानप्यास्फालयामि । हम्मीरकृते जनलो राजपुत्र एवं वदति । कोपानलमध्येऽहं ज्वलामि । सुलतानः सुरत्राणोऽलावदीनः ( जल्लादीन्द्रः) तच्छीर्षे करवालं दत्वा त्यक्त्वा च कलेवरं दिवं चलामीति प्रतिज्ञां करो - मीति जजलस्य वचनम् । उवणिका यथा - ॥॥, ss, Isi, sil, sil, ॥, s॥॥, ॥॥,ISI, SS, ॥, ॥, ॥॥, ॥॥, ISI, ॥, ॥, ॥, ॥, ॥s, II, sil, ss, ॥, ss, Isi, ss, ॥, ss, ॥॥॥॥, I, ॥s, is], ॥, ॥, ॥, ॥, ॥॥, .
एतस्यैव प्रकारान्तरेण लक्षणमाह
पअपअतलउ णिबद्ध मत्त चउवीसइ किज्जइ, अक्खर डंबर सरिस छंद इह सुद्ध भणिज्जइ, आइहिं छक्कल होइ चारि चउकल णिवुत्तर, दुकल अंत ठबेहु सेसकइ वत्थु णिवुत्तर, बावण्ण सउ वि मत्तह मुणहु उल्लालउ सरिसउ गुणहु, छप्प छंद एरिसिअ होइ गंथ गंथिअ मरहु ॥ ८७ ॥ [पदपदतले निबद्धा मात्राश्चतुर्विंशतिः क्रियन्ते, अक्षराणि डैम्बराणि सदृशानि छन्द इति शुद्धं भण्यते, आदौ षटुलो भवति चत्वारश्चतुष्कला निरुक्ताः, द्विकलमन्ते स्थापयन्तु शेषकविना वस्तु निरुक्तं, द्विपञ्चाशच्छतं मात्रा जानीत उल्लालेन सहैव गणयत,
५०
षट्पदं छन्द एतादृशं भवति ग्रन्थं ग्रन्थित्वा म्रियध्वम् ॥]
पदे पदे प्रतिचरणमधस्तान्निबद्धमात्राश्चतुर्विंशतिः क्रियन्ते । अक्षराडम्बरः सदृश एव भवति । इत्यमुना प्रकारेण कृतं छन्दः शुद्धं भण्यते । तत्र गणनियममाह - आदौ षट्को गणो भवति । ततश्चत्वारश्चतुष्कला निरुक्ता: । द्विकलं चान्ते स्थापयन्तु । शेषकविना तद्वस्त्विति नामान्तरं निरुक्तम् । मात्रासंख्यामाह — संभूय द्विपञ्चाशदधिकं मात्रा - शतकं १५२ जानीत । उल्लालेन सहैव गणयन्तु । एतेन काव्यस्य षण्णवत्या ९६ उल्लालस्य षट्पञ्चाशता ५६ संभूय द्विपञ्चाशदधिकं शतमित्यर्थः । भोः शिष्याः किमिति ग्रन्थग्रन्थनं कृत्वा म्रियध्वमिति । भूषणेऽपि - 'षट्कलमादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु, छन्दः षट्पदनाम भवति फणिनायकगीतम्, रुद्रे
१. 'गमिज्जइ' रवि ०. २. 'आरभटीयुक्तानि ' रवि ०.