________________
५१
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
विरतिमुपैति तु पतिसुखकरमुपनीतम्, उल्लालयुगलमंत्र च भवेदष्टाविंशतिकलमिदम्, शृणु पञ्चदशे विरतिस्थितं पठनादपि गुणिगणहितम् ।' इदमप्युदाहरणम् ॥ वस्तुनामकं षट्पदमुदाहरति - जहा (यथा ) -
'जहा सरअ ससिबिंब जहा हरहारहंसठिअ, जहा फुल्ल सिअकमल जहा सिरिखंड खंडकिअ, जहा गंगकल्लोल जहा रोसाणिअ रुप्पइ,
जहा दुद्धवर मुद्धफेण फंफाइ तलप्फइ,
पिअपाअ पसाएदिट्ठि पुणु विहसि हसइ जह तरुणिजण, वरमत्ति चंडैसर कित्ति तुअ तुत्थ देक्खु हरिबंभ भण ॥ [ यथा शारदशशिबिम्बं यथा हरहारहंस स्थितिः,
यथा फुलं सितकमलं यथा श्रीखण्डः खण्डीकृतः, यथा गङ्गाकल्लोलो यथोज्ज्वलीकृतं रूप्यम्, यथा दुग्धवरे मुग्धफेनः फफाइ स्फुरति,
प्रियात्प्राप्य प्रसाददृष्टिं पुनर्विहस्य हसति यथा तरुणीजनः, वरमत्रिंश्चण्डेश्वर कीर्तिस्तव तथ्यं पश्य हरिब्रह्मा भणति ॥]
यथा शारदः शशिबिम्ब:, यथा हरहारहंसस्थितिः, यथा फुल्लं सितकमलम्, यथा खण्डीकृतः श्रीखण्डः, यथा [गङ्गा ] कल्लोल:, यथोज्ज्वलीकृतं रौप्यम्, यथा दुग्धवरे मुग्धफेनः । 'फफाइ' इत्यनुकरणम् । ऊर्ध्वं गत्वा स्फुरति । प्रियात्प्राप्य प्रसाददृष्टिं पुनः स्मित्वा हसति यथा तरुणीजनः । तथा हे चण्डेश्वर, राज्ञो वरमन्त्रिन्, तव कीर्तिः स्फुरति । इति तथ्यं पश्य । हरिब्रह्मनामको कविर्भणति । क्वचित् 'पुणु विहसि' इति स्थले 'पलु णिहुइ' इति पाठः, तत्र दृष्टिं पातयित्वा अर्थात्प्रिये निभृतं यथा स्यात्तथा हसतीति । उट्टवणिका यथा – ISII, IS, IS, IS, ISI, II, Issi, ॥, ॥, ॥S, ISI, II, ISSI, SS, IIS, SS, IS, II, IssI, II, ISI, SS, IS, ॥, ॥, ॥s, ss, II, III, ॥, ॥, ॥ऽ, ॥ऽ, ॥S, IS, ISI, ॥, ॥ षट्पदच्छन्दः खलु छन्दोद्वयेन भवति । काव्यपदचतुष्टयेनोल्लालपदद्वयेनेति ॥
काव्यमात्रालक्षणमाह
आइ अंत दुहु छकलउ तिणि तुरंगम मज्झ ।
ती जगण कि विप्पगण कव्वह लक्खण बुज्झ ॥ ८८ ॥
---