________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
मध्यस्थितो गणः पञ्च अधोवर्णा लघुद्वयं दीयते, उल्लालयोर्विरतियोः पञ्चदशसु मात्रास्वष्टाविंशतिस्तत,
एवं जानीत गणयत षट्पदपदमन्यथात्र किमपि न भवति ॥] इतश्च षट्पदप्रकरणमारभ्यते-षट्पदं छन्दो विदग्धाः शृणुत । अक्षरसंयुक्तम् । एकादशकलासु तस्य विरतिः । तदनन्तरं त्रयोदशकलासु विश्रामो निर्धमम् । द्वे मात्रे धृत्वा प्रथमं ततः पुनश्चतुश्चतुष्कलाः क्रियन्ते । मध्यस्थित एको गणः । एवं चतुष्कलाः पञ्च । हेतु चरणान्ते सर्वत्र लघुद्वयं दीयते । पश्चादुल्लालचरणयोभ्यां पञ्चदशभ्यां विरतिः । अ. टाविंशतिमात्रिकौ च चरणौ भवतस्तौ । अत्र सर्वत्रानुक्तस्थले उर्वरितकलासु विश्रामसंख्या ज्ञेयेति । एवं जानीत । गुणयन्तु षट्पदपदे मदुक्तलक्षणादन्यथात्र न किमपि भवति । अयमर्थः-पूर्व मात्राद्वयम् । ततश्चतुष्कलाः पञ्च । अधस्तु मात्राद्वयम् । एवं पदचतुष्टयं विधेयम् । अनन्तरमुल्लालछन्दसि पञ्चदशसु मात्रासु त्रयोदशसु विश्रामः तादृशं पदद्वयमष्टाविंशतिकलात्मकम् । एवं काव्यं पदचतुष्टयेन उल्लालपदद्वयेन द्वाभ्यां छन्दोभ्यां षट्पदं भवति । इदमप्युदाहरणम् ॥ षट्पदमुदाहरति-जहा (यथा)'पिंधउ दिढसंणाह वाह उप्पइ पैक्खर दइ, बंधु समदि रण धसउ साहिहम्मीरवअण लइ, उड्डउ णहपह भमउ खग्ग रिपुसीसहि झल्लउ, पक्खर पक्खर ठल्लिपेल्लि पव्वअ अप्फालउ, हम्मीरकज्ज जज्जल भण कोहाणलमह मइ जलउ, सुलितानसीस करवाल दइ तज्जि कलेवर दिअ चलउ ।' [परिधाय दृढसंनाहं वाहोपरि संनाहं दत्वा, बन्धून्संभावयित्वा रणेऽवतीर्णः साहिहम्मीरवचनं गृहीत्वा, उडुपे नभःपथे भ्रमामि खगेन रिपुशीर्षाणि क्षयामि, संनाहेन संनाहमपहस्तयित्वा पर्वतानास्फालयामि, हम्मीरकार्ये जज्जलो भणति कोपानलमध्येऽहं ज्वलामि,
सुलतानशीर्षे करवालं दत्वा त्यक्त्वा कलेवरं दिवं चलामि ॥] . कश्चित्कविर्वीरहम्मीरसुभटस्य जजलाख्यस्य सोत्साहं प्रतिज्ञामुपवर्णयति-यथा मया परिधृतो दृढः संनाहः । तुरगोपरि संनाहं दत्वा, बन्धून्संभावयित्वा, एषोऽहं रणेऽवतीर्णः,
१. 'पक्खरा तुरगकवचे' इति देशीनाममाला.