________________
१ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
४७
पिङ्गलकविना द्वाषष्टिमात्राकया कृत्वा अत्युत्कृष्टं घत्तानामकं छन्दो दृष्टम् । अत्र चतुर्मात्रिकान्सप्तगणान्द्वयोरपि पादयोस्त्रींस्त्रील्लंघनन्ते धृत्वा भण । अयमर्थः-घत्ता द्विपदी तत्र चतुष्कलाः सप्तगणास्त्रिलध्वन्ताः । द्वयोरपि चरणयोः समुदिता मात्राश्चतुःषष्टिः कर्तव्या इति । भूषणेऽपि 'इह चतुष्कलगणनिर्मितपदं त्रिलघुविरामं भवति यदि । नागाधिपपिङ्गलभणितसुमङ्गलघत्तावृत्तमिदं द्विपदि ॥' इदमप्युदाहरणम् ॥ एतस्यैव सविश्रामं लक्षणान्तरमाह
पढमं दस वीसामो बीए मत्ताइँ अट्ठाइँ । तीए तेरह विरई घत्तामत्ताइँ बासठ्ठी ॥ ८३ ॥ [प्रथमं दशसु विश्रामो द्वितीये मात्रास्वष्टसु ।
तृतीये त्रयोदशसु विरतिर्घत्तामात्रा द्वाषष्टिः ॥] प्रथमे चरणे प्रथमं दशसु मात्रासु विश्रामः । द्वितीयस्थले अष्टसु । तृतीयस्थले त्रयो. दशसु मात्रासु विरतिः । इत्येकत्रिंशत्कलात्मकः प्रथमश्चरणः । एवं द्वितीयोऽपि । संभूय द्वाषष्टिः कला इत्यर्थः । गाहूछन्दः ॥
घत्तामुदाहरति-जहा (यथा)'रणदक्ख दक्खहणु जिण्णकुसुमधणु अंधअगंधवि णासकरु। सो रक्खउ संकरू असुरभअंकर गोरिणारिअद्धंग धरु ॥' [रणदक्षो दक्षहन्ता जितकुसुमधन्वान्धकगन्धस्यापि नाशकरः ।
स रक्षतु शंकरोऽसुरभयंकरो गौरीनारीमर्धाङ्गे धारयति ॥] रणदक्षः सङ्ग्रामकुशलः, दक्षस्य हन्ता, जितकुसुमधन्वा जितकंदर्पः । अन्धकस्यासुरस्य गन्धस्यापि विनाशकरः । गौरीनारीमर्धाङ्गे धारयति यः । तादृशोऽसुरभयंकरः स शंभुर्युष्मानक्षतु । उदृवणिका यथा-us, is, us, m, us, us, us, , ss, ॥s, , us, us, Is), ss, , घत्ता निवृत्ता ॥ अथ त्रिभेदेन घत्तानन्दमाहसो घत्तहकुलसारु कित्तिअपारु णाअराअ पिंगल कहइ । एआरह वीसाम णंदउ णाम पुणुवि सत्त तेरह विरइ ॥ ८४॥ [स घत्ताकुलसारं कीापारो नागराजः पिङ्गलः कथयति ।
एकादशसु विश्रामो नन्दो नाम पुनरपि सप्तसु त्रयोदशसु विरतिः॥] ततश्छन्दो घत्तानाम । सुच्छन्दःसु कुलेन सारं जातिश्रेष्ठम् । मात्रात्मकमित्यर्थः । 'जातिर्मात्राकृता भवेत्' इत्युक्तत्वात् । तत्किम् । यत्र प्रथममेकादशसु मात्रासु विश्रामः । पुनरपि सप्तसु । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । तत्की| अपारः, अपार