SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४६ काव्यमाला | नात्येनं भेदम् । कविः पिङ्गलो भाषते । मृगनयनेऽमृतमेतत् । अथमर्थः - चतुष्पदीछन्दः एतत्पदचतुष्टययुक्तमेकं चरणम्, एतादृशपदचतुष्टयं तादृशं छन्द इत्यभिप्रायः । तत्र च - तुर्मात्रिका: सप्तगणा भवन्ति, पादान्ते च सर्वत्र गुरुः कर्तव्यः । एवं च त्रिंशन्मात्राः पादे भवन्तीति फलितोऽर्थः । एवं च सति विंशत्यधिकं मात्राशतकं चरणचतुष्टयेऽपि भवति । तत्सर्वमेवैकमेव चरणं तदभिप्रायेणात्र मात्राणां चतुःशती साशीतिर्निरुक्ता, तदेकलं न कर्तव्यं चतुश्छन्दोयुक्तमेव कर्तव्यमिति । वाणीभूषणे तु विंशत्युत्तरं शतमात्रात्मकमेवोक्तम्- 'चौपइयावृत्तं त्रिंशन्मात्रं फणिपतिपिङ्गलगीतं कुरु सप्ततुरंगममति हृदयंगम - मन्ते गुरुमुपनीतम् । यदि दशवसुरविभिश्छन्दोविद्भिः क्रियते यतिरभिरामं सपदि श्रवसमये नृपतिः कवये वितरति संसदि कामम् ॥' इदमप्युदाहरणम् । ग्रन्थगौरवभयाच्चतुष्पदिकायाः पादमेकमुदाहरति- जहा (यथा ) - I 'जसु सीसहि गङ्गा गोरि अधंगा गिम पहिरिअ फणिहारा, कंठठ्ठअवीसा पिंण दीसा संतारिअ संसारा । किरणावलिकंदा मंदिअ चंदाणअणहि अणल फुरंता, सो संपअ दिज्जउ बहुसुह किज्जउ तुझ भवाणीकंता ॥' [यस्य शीर्षे गङ्गा गौर्यर्धाङ्गे ग्रीवायां परिधृतः फणिहारः, कण्ठस्थित विषः पिधानं दिशः संतारितसंसारः । किरणावलिकन्दो नन्दितचन्द्रो नयनेऽनलः स्फुरन्, स संपदं ददातु बहुसुखं करोतु युष्मभ्यं भवानीकान्तः ||] स इति प्रसिद्धो भवानीकान्तो युष्मभ्यं संपदं ददातु । बहुसुखं च करोतु । स कः । यस्य शीर्षे गङ्गा स्फुरति । यस्यार्धाङ्गे गौरी वसति । येन ग्रीवायां परिधृतः फणिहारः । यश्च कण्ठस्थितविषः । यस्य पिधानं वासो दिक् । दिगम्बर इत्यर्थः । संतारितस्तारकोपदेशात्संसारो येन तथाभूतः । यश्च किरणावलीनां दीप्तिकदम्बानां कन्द उत्पत्तिस्थानम् । 'यद्भासा सर्वमिदं भासते' इति श्रुतेः । नन्दित आनन्दितो हर्षयुक्तश्चन्द्रो यस्मिन् । यस्य नयने भालस्थतायलोचने अनलो ज्वलनः स्फुरन् । अस्ति इति शेषः । उवणिका यथा -- ॥, ॥s, ss, ॥, ॥, ॥॥, ॥s, s, ss, s, ss, is, ss, si, ss, , ॥, ॥s, ss, s, s॥, ॥॥, ॥s, s, ss, ॥, ॥, ॥, ॥, ॥s, ss, s, चौपया निवृत्ता । 'पिंगलकइदिट्ठउ छन्द उकिट्ठउ घत्त मत्त बासट्ठि करु | चउमत्तसत्तगण बेवि पाअ भण तिष्णि तिणि लहुअंत धरि ॥ ८२ ॥ [पिङ्गलकविदृष्टं छन्द उत्कृष्टं घत्ता मात्रा द्विषष्टिं कुरु । चतुर्मात्रिकान्सप्तगणान्द्वयोरपि पादयोर्भण त्रींस्त्रीघूनन्ते धृत्वा ॥] १. मूल पुस्तके 'पिंगल -' इत्यस्य प्राक् 'अह घत्ता' इति दृश्यते.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy