________________
१ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
४५
गन्धानाख्ये छन्दसि सप्तदशाक्षराणि स्थापयत प्रथमचरणे । द्वितीये चरणे पुनर्यमकं दत्वाष्टादशाक्षराण्येव विजानीत | दोहाछन्दः ॥
गन्धाणामुदाहरति
'कण्ण चलते कुम्म चलइ पुणु वि असरणा, कुम्म चलंते महि चलइ भुअणभअकरणा । महिअ चलते महिहर तह अ सुरअणा, चक्कवह चलते चलइ चक्क तह तिहुअणा ॥' [कर्णे चलति कूर्मश्चलति पुनरशरणः,
कूर्मे चलति मही चलति भुवनभयकरणा । मह्यां चलन्त्यां महीधरास्तथा च सुरजनाः,
चक्रवर्तिनि चलति चलति तथा त्रिभुवनचक्रम् ॥]
कश्चित्कविः कर्णनरपतिं स्तौति – कर्णे राजनि सङ्ग्रामार्थ चलति सति कूर्मः पुनरशरणः संश्चलति स्थानभ्रष्टो भवति । तस्मिंश्चलति भुवनभयंकरा मही चलति । मह्यांचलन्त्यां महीधरा मेर्वादयश्चलन्ति । तथा च सति तदाश्रिताः सुरजना देवसंघाश्चलन्ति । एवं कर्णे चलति दिक्चक्रं चलति । तथा त्रिभुवनं चलति । इतस्ततो भ्रमतीत्यर्थः । उवणिका यथा — s॥, ss, s॥, ॥॥॥॥, s, s॥, ss, ॥॥, ॥॥, ॥॥, s, m, ऽऽ, II, IIII, IS, SII, IS, SII, ISI, IIII, IS, गन्धाणा निवृत्ता ॥
अह चउपइआ छंदा -- अथ चतुष्पदीछन्द:
चउपइआछंदा भणइ फणिंदा चउमत्ता गण सत्ता,
पाहि सगुरु करि तीस मत्त धरि चउसअ असि अ णिरुत्ता । चउ छंद लविज्जइ एक ण किज्जइ को जाणइ ऍहु भेऊ,
कइपिंगल भासइ छंद पआसइ मिअणअणि अमिअ एहू ॥ ८१ ॥ [ चतुष्पदीछन्दो भणति फणीन्द्रश्चतुर्मात्रकान्सप्त गणान्,
पादान्ते सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुः शतमशीतिश्च निरुक्ता । चतुर्षु छन्दः सु लिख्यत एकं न क्रियते को जानात्येनं भेदं,
कविः पिङ्गलो भाषते छन्दः प्रकाशते हे मृगनयनेऽमृतमेतत् ॥] चतुष्पदीछन्दो भणति फणीन्द्रः । चतुर्मात्रकान्सप्त गणान्पादे सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुःशतमशीतिश्च निरुक्ता । चतुर्षु छन्दःसु योजनीयमेकं न करणीयम् । को जा -
१. 'सुरगणाः' रवि ०.
.