SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। [लोहंगिणी सर्वलघुर्यत्र गुरुरेको भवति सा हंसी । यो यो वर्धते हारो नाम यद्यत्र तत्तत्र ॥] लोहंगिणी सर्वलघुका । यत्रैको गुरुर्भवति सा हंसी । एवं लघुद्वयहासेनैकैकगुरुवृद्ध्या यन्नाम यत्र तन्नाम तत्र । अत्र सर्वत्र षट्षष्टिमात्राः । ते यथा-६६ मात्रा सर्वे लघुका लोहंगिणी । ६४ ल० १ गु० ६६ मा० हूंसी । ६२ ल० २ गु० ६६ मा० रेखा । ६० ल० ३ गु०६६ मा० तालङ्किणी । ५८ ल० ४ गु० ६६ मा० कम्पिणी । ५६ ल०५ गु० ६६ मा० गम्भीरा । ५४ ल० ६ गु० ६६ मा० काली । ५२ ल० ७ गु० ६६ मा० कलरुद्राणी । एतेऽष्टावुक्कच्छाया भेदाः । गाहाछन्दः ॥ अथ रोलाछन्दःपढम होइ चउवीस मत्त अन्तर गुरु जुत्ते, पिङ्गल होते सेसणाअ तण रोला वुत्ते । एग्गाराहा हारा रोलाछन्दो जुज्जइ, एके एके टुट्टइ अण्णो अण्णो वट्ठइ ॥ ७७ ॥ [प्रथमं भवन्ति चतुर्विंशतिर्मात्रान्तरा गुरुयुक्ताः, पिङ्गलोऽभवच्छेषनागस्तेन रोला विवृता । एकादश हारा रोलाछन्दसि योज्यन्ते, एकस्मिन्नेकस्मिंत्रुटितेऽन्योऽन्यो वर्धते ॥] पिङ्गलो ब्राह्मणोऽभवद्यः शेषनागस्तेन रोलाख्यं छन्दो विवृतम् । अत्र रोलाछन्दसि एकादश हारा गुरवो योज्यन्ते । एकैकगुरुहासेनान्योऽन्यो लघुर्वर्धते । अत्र च यथाकथंचित्प्रतिचरणं चतुर्विंशतिः कलाः कर्तव्या इति । वाणीभूषणेऽपि–'रोलावृत्तमवेहि नागपतिपिङ्गलभणितं प्रतिपदमिह चतुरधिककलाविंशतिपरिगणितम् । एकादशमधिविरतिरखिलजनचित्ताहरणं सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥' इति । इदमप्युदाहरणम् ॥ , रोलामुदाहरति-जहा (यथा)'पअभरदरमरुधरणितरणिरंह धुल्लिअ झंपिअ, कमठपिट्ठटरपरिअ मेरुमंदरसिर कंपिअ । कोहे चलिअ हम्मीरवीरगअजुहसंजुत्ते, किअउ कठ्ठ हाकंद मुच्छि मेच्छिअके पुत्ते ॥' १. गुरुः. २. 'ध' रवि०. 'ध्वजैः' इति तच्छाया.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy