________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
[पदभरमर्दिता धरणिस्तरणिः स्थितो धूल्याच्छादितः,
कमठपृष्ठमधः पतितं मेरुमन्दरशिरः कम्पितम् । कोपेन चलितो हम्मीरवीरो गजयूथसंयुक्तः,
कृतः कष्ट हाक्रन्दो मूछितं म्लेच्छानां पुत्रैः ॥] कश्चित्कविर्वीरहम्मीरप्रयाणमनुवर्णयति-पदभरेण मर्दिता धरणिस्तरणिः सूर्यः स्थितस्तदा धूल्या समाच्छादितः । 'तरणिरथः' इति वा । कमठपृष्ठमधः पतितम् । अतिभारादादिकूर्मोऽप्यधस्ताद्गत इति भावः । मेरुमन्दरयोरपि शिरः कम्पितम् । यदा कोपेन चलितो हम्मीरवीरो गजयूथसुयुक्तस्तदा कृतो हाकष्टाक्रन्दः, मूच्छितं च म्लेच्छानामपि पुत्रैरिति ॥ यथास्यैकैकगुरुहासेन लघुद्वयवृद्ध्या त्रयोदशभेदास्तानुद्दिशति
कुंद करअल मेह तालंक, कलरुद्द कोकिल कमल, इंदु संभु चामर गणेसरु, सहसक्खह सेस भण, णाअराअ जंपइ फणेसरु, तेरह अक्खर जं पलइ, एग्गारह गुरु देहु, अक्खर अक्खर जं ठढइ, तं तं णाम भणेहु ॥ ७८ ॥ [कुन्दः करतलो मेघस्तालाङ्कः, कालरुद्रो कोकिल: कमलम्, इन्दुः शंभुश्चामरो गणेश्वरः, सहस्राक्षः शेषो भणति, नागराजो जल्पति फणीश्वरः, त्रयोदशाक्षराणि यदि पतन्ति, एकादश गुरून्दत्थ, अक्षरमक्षरं यदि वर्धते,
तत्तन्नाम भणत ॥]. १. 'सहस्राख्यः' रवि:०.