________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
यस्य यशस्त्रिभुवनं पिबति, वाराणसीनरपति लितः,
सकलोपरि यशः पुष्पितम् ॥] कश्चित्कस्यचिदप्रेऽचलनरपतेः समराङ्गणादपमानमनुवर्णयंस्तत्कटकक्षोभमुपवर्णयतिविमुखं पराङ्मुखं चलितो रणादचलाख्योऽपि परिहत्य हयगजबलं तदानीमेव मलयनरपतिरपि हलहलित आकस्मिकसंजातसाध्वसोऽभूत् । यस्य यशस्त्रिभुवनं पिबति । व्याप्नोती. त्यर्थः । अथ च वाराणसीनरपतिरपि लुलितः पराङ्मुखो बभूव । सकलस्य लोकस्योपरि यस्य यशः पुष्पितम् । विकसितमित्यर्थः । उद्दवणिका स्पष्टा ॥ अर्थतस्य छन्दस उक्कलेति नामान्तरमाह
आइकव्वउक्कच्छ किउ लोहंगिणिमह सारु । गुरु वट्ठइ बिचल घटइ तं तं णाम विआरु ॥ ७४ ॥ [आदिकाव्यमुक्कच्छा कृतं लोहंगिण्यां सारम् ।
गुरुर्वर्धते द्वौ लघू हसतस्तत्तन्नाम विचारय ॥] सर्वलघुकं रसिकाछन्दः । आदिकाव्यमर्थात्प्रथमं भेदं कृत्वा 'उक्कच्छा' इति णाम किउ कृतम् । छन्दोविद्भिरिति शेषः । कीदृशम् । लोहंगिण्यामेतस्यैवापरभेदे छन्दसि सारभूतम्। उत्कृष्टमित्यर्थः । अत्र च यदा गुरुर्वर्धते द्वौ लघू हसतस्तदा तत्तन्नाम विचारय । दोहाछन्दः ॥ लघुद्वयद्वासेनैकगुरुवृद्ध्योक्कच्छाया अष्टौ भेदास्तानुद्दिशति
लोहंगिणि हंसिणिआ रेहा तालंकि कंपि गंभीरा । काली कलरुदाणी उकच्छा अट्ठ नामाई ॥ ७५॥. [लोहंगिणी हंसी रेखा तालङ्की कम्पी गम्भीरा ।
काली कालरुद्राणी उक्कच्छाया अष्ट नामानि ॥] लोहंगिणी, हंसी, रेखा, तालङ्किणी, कम्पिणी, गम्भीरा, काली, कालरुद्राणी, इत्यष्टावुक्कच्छाया नामानि । भेदा इत्यर्थः । गाहाछन्दः ॥ अथाष्टभेदानयनप्रकारमाह
लोहंगिणि सव्वलहू जत्थ गुरू ऐक होइ सा हंसी।
जं जं वट्ठइ हारो णामं जो जत्थ सो तत्थ ॥ ७६ ॥ १. 'स्फुरति' रवि०. २. 'चारि' रवि०; 'यत्र चत्वारो गुरवः सा हंसी । तत्र यथा यथा चत्वारो गुरवो वर्धन्ते तथा तथा नामान्यपि वर्धन्ते । अवशिष्टछन्दस उक्कच्छा नामैव' इति तत्पाठानुसारिणी रविकरव्याख्या