SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । [यस्यार्धाङ्गे पार्वती शीर्षे गङ्गा यस्य । यो देवानां वल्लभो वन्दे पादं तस्य ॥] अथ लघुसंख्याभेदेन द्विपथाया वर्णभेदमाह बारह लहुआ विप्पी तह बाईसेहिँ खत्तिणी भणिआ । बत्तीस होइ वेसी जा इअरा सुद्दिणी होइ ॥ ६९ ॥ द्वादश लघवो विप्रा तथा द्वाविंशत्या क्षत्रिया भणिता । द्वात्रिंशता भवति वैश्या अष्टचत्वारिंशता शूद्री भवति ॥] चतुर्लघुकमारभ्य द्वादशलघुपर्यन्ता द्विपथा विप्रा ब्राह्मणी भवति । तथा त्रयोदशलघुकमारभ्य द्वाविंशत्या लघुकैः क्षत्रिया भणिता । त्रयोविंशतिलघुकमारभ्य द्वात्रिंशत्या लघुकैर्वैश्या भवति । या इतरा सा सर्वा शूद्रा भवति । गाथा छन्दः ॥ विषमचरणस्थजगणाय दोषमाह जिस्सा पढमहिँ तीए जगणा दीसन्ति अ पाए ण । चण्डालह घररहिआ दोहा दोसं पआसेइ ॥ ७॥ [यस्याः प्रथमे तृतीये जगणा दृश्यन्ते च पादे ननु । चाण्डालगृहस्थिता दोहा दोषं प्रकाशयति ॥] यस्या दोहायाः प्रथमे तृतीये च पादे ण ननु जगणा दृश्यन्ते सा दोहा चाण्डालगहस्थितेव दोषं प्रकाशयति । यद्वा प्राकृते पूर्वनिपातानियमागृहस्थितचाण्डालेव दोषावहा भवति । गाथा छन्दः ॥ दोहायां गणनियममाह छक्कलु चक्कलु तिण्णिकलु ऍमपरि विसम पअन्ति । समपाअहिँ अन्तेककलु ठवि दोहा णिब्भन्ति ॥ ७१॥ [षटलश्चतुष्कलस्त्रिकलोऽनेन प्रकारेण विषमे पतन्ति । समपादेऽन्त एककलां स्थापय दोहा निर्धान्ता ] षटलः चतुष्कलः त्रिकलश्चानया रीत्या त्रयोऽमी गणा विषमे प्रथमे तृतीये च चरणे पतन्ति । समे पादे तृतीये चतुर्थे च चरणे षट्रलचतुष्कलस्थापनानन्तरमेकामेव कलां निवृत्तां कुर्वित्यर्थः । वाणीभूषणेऽपि-'षटूलतुरगौ विकलमपि विषमपदे विनिधेहि । समपादान्ते चैककलमिति दोहामवधेहि ॥' दोहा णिव्वुत्ता (दोहा निवृत्ता)॥ रापात ।।
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy