________________
३४
काव्यमाला ।
यत्र पूर्वार्धे प्रथमदले त्रिंशन्मात्रा भवन्ति उत्तरार्धे चरमदले द्वात्रिंशन्मात्रा : संभूय द्वाषष्टिर्य भवन्ति पिङ्गलः प्रभणति मुग्धे शृणु सा गाहिनी छन्दः । तद्विपरीत सिंहिनीं सत्यं भण । कथयेत्यर्थः । अत्र पूर्वार्धे द्वात्रिंशन्मात्रा उत्तरार्धे च त्रिंशन्मात्रा इति विपर्ययार्थः । वाणीभूषणेऽपि - 'यदि गाथातुर्य पदं विंशतिमात्रं च गाथिनी भवति । फणिपतिपिङ्गलभणितं तद्विपरीतं तु सिंहिनीवृत्तं स्यात् ॥ इदमप्युदाहरणम् ॥
गाथिनीमुदाहरति--जहा -
'मुञ्चहि सुन्दरि पाअं अप्पहि हसिऊण सुमुहि खग्गं मे । कप्पिअ मेच्छसरीरं पेच्छइ वअणाइ तुझ धुअ हम्मीरो ॥' [मुञ्च सुन्दरि पादमर्पय हसित्वा सुमुखि खड्ग मे ।
कल्पयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः ॥] संग्रामयात्रायां चरणपतितां पत्नीं प्रति हम्मीरवचनम् - मुञ्च सुन्दरि पादम् । विघ्नं मा कुर्वित्यर्थः । हे सुमुखि, अर्पय हसित्वा मम खड्गम् । खड्ग ग्रहणानन्तरं प्रतिजानीतेकल्पयित्वा छेदयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः । अनिकृत्तम्ले - च्छशरीरो भवन्मुखं नावलोकयितुं सहिष्य इति भावः ॥
सिंहिनीमुदाहरति- जहा -
' वरिसइ कणअह विट्ठि तप्पइ भुअणे दिआणिसं जग्गन्तो । णीसङ्क साहसङ्को णिन्दइ इन्दं अ सूरबिम्बं अ ||' [वर्षति कनकस्य वृष्टि तपति भुवनानि दिवानिशं जाग्रत् । निःशङ्क साहसाङ्को निन्दतीन्द्रं च सूर्यबिम्बं च ॥] कश्चित्कविर्विक्रमादित्यं स्तौति । अयमर्थः - अयं कनकस्य वृष्टिं वर्षति, इन्द्रस्तावजलवृष्टिं वर्षति । असौ भुवनानि तपति सूर्यबिम्बं भुवनं तपति । इन्द्रः सूर्यो वा दिवसे जागर्ति, अयं तु दिवानिशं जाग्रदेवावतिष्ठत इत्यर्थः । उट्टवणिका उभयोर्यथा – SI, sil, ss, s॥, ॥s, ॥॥, ss, s ॥ s॥, si, ss, s॥, ॥s, is |l ss, s, ॥ ॥॥, ॥॥ SS, S॥, ॥S, ISI, SS, SS॥ ss, s ॥ ss, SI, ISI, SS, S, ॥, गाहिनीसिंहिन्यौ निवृत्ते ॥
अथ स्कन्धकं छन्द:
चउमत्ता अट्ठगणा पुव्त्रद्धे उत्तद्ध होइ समरूआ |
सो खन्धआ विहु पिङ्गल पभणेइ मुद्धि बहुसंभेआ ॥ ६३ ॥ [चतुर्मात्रिका अष्टौ गणाः पूर्वार्धे उत्तरार्धे भवन्ति समरूपाः । तं स्कन्धकं जानीहि पिङ्गलः प्रभणति मुग्धे बहुसंभेदम् ||]
१. ' द्रक्ष्यामि वदनं तव ध्रुवं हम्मीर:' रवि ० . २. 'भुवने' रवि ०.
.