________________
१ परिच्छेदः]
प्राकृत पिङ्गलसूत्रम् ।
३५
चतुर्मात्रा गणा अष्टौ भवन्ति पूर्वार्धे उत्तरार्धे च समरूपाः । दलद्वयेऽपि मिलित्वा चतुःषष्टिमात्रकशरीरं स्कन्धकं विजानीत । पिङ्गलः प्रभणति मुग्धे । बहुसंभेदमष्टाविंशतिप्रभेदमित्यर्थः । भूषणेऽपि — 'स्कन्धकमपि तत्कथितं यत्र चतुष्कलगणाष्टकेनार्ध स्यात् । तत्तुल्यमग्रिमदलं भवति चतुःषष्टिमात्रकशरीरमिदम् ॥ इदमप्युदाहरणम् ॥ स्कन्धकमुदाहरति — जहा -
'जं जं आणेइ गिरिं रइरहचकपरिघट्टणसहं हणुआ । तं तं लीलाइ णलो वामकरत्थंहि रएइ समुद्दे ॥' [यं यमानयति गिरिं रविरथचक्रपरिघट्टनसहं हनूमान् । तं तं लीलया नलो वामकरस्तम्भितं रचयति समुद्रे ॥]
उणिका यथा - Ss, ss, ॥S, ॥, s॥, Isi, s, ॥ ॥ ss, ss, ॥s, Sil, SS, ISI, Sll, ss ॥
अथ स्कन्धकस्य व्याप्यव्यापकभावेन सर्वगुरुकृतस्यैकगुरुहासे [ लघु ] द्वयवृद्धला वाष्टाविंशतिभेदाः । तानुद्दिशति —
णन्दउभद्दउसेससारङ्गसिवबम्भवारणवरुण |
णीलुमअणतालङ्कसेहरु सरुगअणुसरहुविमइरवीर ॥
णअरुणरुसिद्धणेहलु |
मअगलुभोलडसुद्धसरिकुम्भकलसससि जाण ।
सरहसेसससहर गुणहु अट्ठाइस खन्धाण ॥ ६४ ॥ [नन्दभद्रशेषसारङ्गशिवब्रह्मवारणवरुणाः ।
नीलमदनतालाङ्कशेखरशरगगनशरभविमतिक्षीराणि ।
नगरनरस्निग्धस्नेहाः ।
मदकलभूपालशुद्धसरित्कुम्भकलशशशिनो जानीहि । शरभशेषशशधराः जानीत अष्टाविंशतिस्कन्धकाः ॥]
हे विज्ञाः, शंरभशेषशशधराः प्राकृतकवयः । गुणहु जानीत । अष्टाविंशतिस्कन्धका इति । यथा - ३० गुरु. ४ लघु. ३४ अक्षर. नन्दः । २९ गुरु. ६ लघु. ३५ अक्षर. भद्रः । २८ गुरु. ९ लघु. ३६ अक्षर. शेषः । २७ गुरु. १० लघु. ३७ अक्षर. सारङ्गः । २६ गुरु. १२ लघु. ३८ अक्षर. शिवः । २५ गुरु. १४ लघु. ३९ अक्षर. ब्रह्मा । २४ गुरु. १६ लघु. ४० अक्षर. वारणः । २३ गुरु. १८ लघु. ४१ अक्षर. व
१. 'शरभः । शेषे अवसाने शशिधरं जानीहि ' इति रविकरव्याख्यानम्.