________________
काव्यमाला।
[त्रयोदशलघुका विप्रा एकविंशतिभिः क्षत्रिया भणिता ।
सप्तविंशतिभिर्वेश्या शेषा सा शूद्रा भवति ॥] त्रयोदशवर्णा लघुका यस्यां सा तदवधिका विप्रा । ब्राह्मणी भवतीत्यर्थः । एकविंशतिभिलघुकैः क्षत्रिया भणिता । सप्तविंशतिभिलघुकैर्गाथा वैश्यां भवति । शेषा तु उनत्रिंशदारभ्य शेषैर्लघुकैः शूद्रा भवति । गाथा छन्दः । विषमस्थानदत्तजगणाया गाथाया दोषमाह
जा पढम तीअ पञ्चम सत्तमठाणे ण होइ गुरुमज्झा । गुम्विणिए गुणरहिआ गाहा दोसं पआसेइ ॥ ५९॥ [या प्रथमतृतीयपञ्चमसप्तमस्थाने ननु भवति गुरुमध्या।
गुर्विणीव गुणरहिता गाथा दोषं प्रकाशयति ॥] या गाथा प्रथमत्तीयपञ्चमसप्तमस्थाने ननु गुरुमध्या जगणयुक्ता भवति गुर्विणीव गुणरहिता सकलकार्याक्षमा सा गाथा दोषं प्रकाशयति । अतो विषमस्थानस्थनायका सा न कर्तव्येत्यर्थः । गाथा छन्दः ॥ गाथा निवृत्ता। विग्गाहा छन्दः
विग्गाहापढमदले सत्ताईसाइँ मत्ताई । पच्छिमदले ण तीसा ई अं जं पिङ्गलेण णाएण ॥ ६०॥ [विगाथाप्रथमदले सप्तविंशतिर्मात्राः ।
पश्चिमदले ननु त्रिंशदिति जल्पितं पिङ्गलेन नागेन ॥] विगाथायाः पूर्वार्धे सप्तविंशतिर्मात्रा भवन्ति । चरमदले उत्तरार्धे ननु त्रिंशन्मात्रा भवन्तीति जल्पितं पिङ्गलेन नागेन । गाथादलवैपरीत्येन विगाथा भवतीत्यर्थः । इदमप्युदाहरणम् । भूषणे तु–'गाथा द्वितीयतुर्यों पादौ भवतस्तु विपरीतौ । सेयं भवति विगाथा फणिनायकपिङ्गलेन संप्रोक्ता ॥' इति ॥ विगाथामुदाहरति जहा
परिहर माणिणि माणं पेक्खहि कुसुमाई णीवस्स । तुम्ह कए खरहिअओ गेह्नइ गुडिआध[अ किर कामौ ॥ [परिहर मानिनि मानं प्रेक्षस्व कुसुमानि नीपस्य ।
युष्मत्कृते खरहृदयो गृह्णाति गुटिकाधनुः किल कामः ॥] मानवती नायिका प्रतिं धृष्टस्य नायकस्य वचनम् । यथा हे मानिनि, मानं परिहर त्यज । प्रेक्षस्व नीपस्य कदम्बस्य कुसुमानि । युष्मत्कृते खरहृदयोऽत्यन्तं कठोराशयः
१. 'ठाणे हि' रवि०. २. 'दले हि' रवि०. ३. 'इति भणितं' रवि०.