________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
३१
१२ गुरु. ३३ लघु, ४५ अक्षर. मानिनी । ११ गुरु. ३५ लघु. ४६ अक्षर. रामा । १० गुरु. ३७ लघु. ४७ अक्षर. गाहिनी । ९ गुरु. ३९ लघु. ४८ अक्षर विश्वा । ८ गुरु. ४१ लघु. ४९ अक्षर वासिता । ७ गुरु. ४३ लघु. ५० अक्षर. शोभा । ६ गुरु. ४५ लघु. ५१ अक्षर. हरिणी । ५ गुरु. ४७ लघु. ५२ अक्षर. चक्री । ४ गुरु. ४९ लघु. ५३ अक्षर. सारसी । ३ गुरु. ५१ लघु. ५४ अक्षर. कुररी । २ गुरु. ५३ लघु. ५५ अक्षर. सिंही । १ गुरु. ५५ लघु. ५६ अक्षर. हंसी । एते सप्तविंशतिभेदाः । एतासामुदाहरणानि मत्कृतोदाहरणमञ्जर्या क्रमेण द्रष्टव्यानि ॥
अथ गाथा पाठप्रकारमुपदिशति —
पढमं वी हंसपअं बीए सिंहस्स विक्रमं जाओ ।
तीए गअवरलुलिअं अहिवरलुलिअं चउत्थए गाहा ॥ ५६ ॥ [ प्रथममिव हंसपदं द्वितीये सिंहस्य विक्रमो यादृक् ।
तृतीये गजवरलुलितमहिवरलुलितं चतुर्थके गाथायाः ॥ |]
प्रथमं द्वादशमात्रं चरणं हंसपदवन्मन्थरं यथा स्यात्तथा पठ्यते । अथवा 'पढमङ्घी' इति क्वचित्पाठः । तत्र प्रथमाङ्घि हंसगमनवत्पठेदित्यर्थः । द्वितीयचरणे सिंहविक्रमी यादृक् तादृक् पठ्यते । तृतीयचरणे गैजवरस्य लुलितं यथा गतिविशेषो भवति तथा पठ्यते । चतुर्थेऽचरणेऽहिवरस्य लुलितं गतिविशेषो यथा भवति तथा पठ्यते । गाथा छन्दः ॥ अथ गणभेदेन गाथायाः सावस्थाभेदं दोषमाह —
1
एके जे कुलन्ती वे णाअकेहि होइ संगहिणी | णाअकहीणा रण्डा वेसा बहुणाआआ होइ ॥ ५७ ॥ [ एकेन जेन कुलवती द्वाभ्यां नायकाभ्यां स्वयंग्राहिणी । नायकहीना रण्डा वेश्या बहुनायका भवति || ]
एकेन जेन जगणेन गाथा कुलीना भवति । जगणस्य नायकपर्यायत्वादिति भावः । द्वाभ्यां नायकाभ्यां जगणाभ्यां स्वयंग्राहिका सुखग्राह्या भवति । नायकहीना रण्डा भवति । बहुनायका गाथा वेश्या भवति । द्वितीयार्थः स्पष्टः । गाथा छन्दः ॥
अथ लघुसंख्याभेदेन गाथाया वर्णभेदमाह
तेरहलहुआ विप्पी एआईसेहि खत्तिणी भणिआ । सत्ताईसा वेसी सेसा सा सुद्दिणी होइ || ५८ ॥
•
१. ‘विय' रवि०. २. ‘अहिलुलिअचउप्पअं' रवि ० ३. 'सिंहविक्रमवद्दुतं पठ्यते' रवि ० . ४. 'गजवरलुलितं सलीलं पठ्यते' रवि ०. ५. 'चतुर्थमहिलुलितम् । यथा सर्पाणां शेषे चाञ्चल्यं तथावसाने चञ्चलं पठ्यत इत्यर्थः ' रवि ० ६. 'वन्ती' रवि०, ७. 'संग्रहिणी' रवि०.