SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥] कस्याश्चित्कलहान्तरितायाः सखी प्रति वचनम् । येन विना न जीव्यते स कृतापराधोऽप्यनुनीयते । उक्तमर्थमर्थान्तरेण दृढीकर्तुमाह-प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः । अपि तु सर्वस्य । उद्ववणिका यथा-su, SI, su, us, Isi, ss,5॥ ss, m, ss, us, I, ss, s, अथ गाथायां गणनियममाह-- सत्तगणा दीहन्ता जो णलहू छट्ठ णेह जो विसमे । तह गाहे बिअअद्धे छटुं लहुअं विआणेहु ॥ ५० ॥ [सप्तगणा दीर्घान्ता जो नलघू षष्ठे नेह जो विषमे । तथा गाथा द्वितीयार्धे षष्ठं लघुकं विजानीत ॥] अत्र चतुष्कलाः सप्त गणा दीर्घान्ता गुर्वन्ता इत्यर्थः । अत्र षष्ठो गणो जगणो भवति नगणलघू वा भवत इति नियमः । इह विषमे स्थाने प्रथमतृतीयपञ्चमसप्तमस्थाने जगणो न भवति । तथा गाथाया द्वितीयेऽर्धेऽपि षष्ठं गणमेकलध्वात्मकं विजानीत । भूषणेऽपि'सप्ततुरगाः सदीर्घाः सदी? जगणो द्विजो(m)ऽथवा भवति । षष्ठं लघूत्तरदले विषमे जगणो न गाथायाः ॥' गाथा छन्दः ॥ सर्वगाथासु सामान्यलक्षणमाह सव्वाए गाहाए सत्तावण्णाइँ होन्ति मत्ताई। पुव्वद्धम्मि अ तीसा सत्ताईसा परद्धम्मि ॥ ५१ ॥ [सर्वस्या गाथाया सप्तपञ्चाशद्भवन्ति मात्राः । पूर्वार्धे च त्रिंशत्सप्तविंशति परार्धे ॥] सर्वस्या गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तत्र विवेकः-पूर्वार्धे त्रिंशत् सप्तविंशतिमात्राः परार्धे च । गाथा छन्दः ॥ अथ गाथायाः सप्तविंशतिभेदेषु लक्ष्मीनानीमाद्या गाथामुपलक्षयति सत्ताईसा हारा सल्ला जस्सम्मि तिण्णि रेहाई । सा गाहाणं गाहा आआ तीसक्खरा लच्छी ॥ ५२ ॥ [सप्तविंशतिगुरवः श्लाघ्या यस्यां तिस्रो रेखाः ।। सा गाथानां गाथा आद्या त्रिंशदक्षरा लक्ष्मीः ॥] यस्यां गाथायां सप्तविंशति गुरवः श्लाघ्यास्तिस्रश्च रेखास्त्रयो लघवः । पूर्वार्धे षष्ठजग
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy