SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १८ काव्यमाला | अथ गाहू छन्द: पुव्वद्धे उत्तद्धे सत्तग्गल मत्तवीसाई । छट्ठमगण मझेगाहू मेरुव्व जुलाई || ४८ ॥ [पूर्वार्धे उत्तरार्धे सप्ताधिका मात्राविंशतिः । षष्ठो गणः पदमध्ये गाहू मेरु (रेव ) युगले ||] पदमध्ये दलद्वयमध्ये मेरुयुगलं भवति । दलद्वयेऽपि षष्ठो गण एकलध्वात्मको भवतीत्यर्थः । मेरुरिति लघोर्नाम । एतादृशं गाहूछन्दो भवति । इदमप्येतस्योदाहरणम् । तथा च वाणीभूषणे – 'गाथोत्तरदलतुल्यं पूर्वदलं भवति यदि बाले । तामिह फणिपतिभणितामुपगीतिं वर्णयन्ति बुधाः ॥' उद्यवणिका यथा - ss, sll, ss, sll, SS, I, ऽऽ, ऽ, ॥ ऽऽ, IIII, SS, SII, SS, I, SS, S, गाहूमुदाहरति - जहा - ( यथा) चन्दो चन्दणहारो ताव अ रूअं पआसन्ति । चण्डेसरवरकित्ती जाव अ अप्पं ण दंसेइ || [ चन्द्रन्दनहारस्तावच्च रूपं प्रकाशयन्ति । चण्डेश्वरवरकीर्तिर्यावच्चात्मानं न दर्शयति ॥ ] चन्द्रश्चन्दनहार एते तावदेव रूपं स्वात्मनः श्वैत्याभिमानेन प्रकाशयन्ति चण्डेश्वरस्य राज्ञः कीर्तिर्यावदात्मानं न दर्शयति । ततोऽप्येतस्य कीर्तिरत्यन्तधवलेत्यर्थः । गाहू निवृत्ता । अथ गाथा छन्द: पढमं बारहमत्ता बीए अट्ठार होंहिं संजुत्ता । जह पढमं तह तीअं दहपञ्चविहूसिआ गाहा ॥ ४९ ॥ [प्रथमं द्वादशमात्रा द्वितीयेऽष्टादश भवन्ति संयुक्ताः । यथा प्रथमं तथा तृतीयं दशपञ्चविभूषिता गाथा ||] यस्याः प्रथमे चरणे द्वादश मात्रास्तथा द्वितीयेऽष्टादशभिः संयुक्ता भवन्ति । यथा प्रथमं तथा तृतीयं द्वादशमात्रम् | या चतुर्थे चरणे पञ्चदशभिर्मात्राभिर्भूषिता भवति सा गाथेत्यर्थः । भूषणेऽपि — 'आदितृतीये द्वादश दशाष्टमात्रा तृतीयचरणे च । तुर्ये पञ्चदश स्युर्गाथेयं पिङ्गलेनोक्ता ॥' प्राकृते गाथा संस्कृते आर्येति नामभेद: । इदमप्युदाहरणम् । गाथामुदाहरति--जहा जेण विणा ण जिविज्जइ अणुणिज्जइ सो कआवराहो वि । पत्ते व अरडा भण कस्स ण वल्लहो अग्गी ॥ १. 'चन्दनं हार: ' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy