________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
२७ लक्ष्मीनाथकविना रचिते रुचिरे प्रबन्धेऽस्मिन् । प्रत्ययपश्चकबन्धं पश्यत छन्दसः सर्वस्वम् ॥' अथैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं समस्तवर्णप्रस्तारपिण्डीभूतसंख्यामाह
छव्वीसा सत्तसआ तह सत्तारहसहस्साई। बाआलीसं लक्खं तेरह कोडी समग्गाई ॥ ४६॥ . [षड्रिंशतिः सप्तशतानि तथा सप्तदशसहस्राणि ।
द्विचत्वारिंशल्लक्षाणि त्रयोदश कोटयः समग्राणि ॥] _ 'अङ्कानां वामतो गतिः' इति न्यायेन त्रयोदश कोटयः द्विचत्वारिंशल्लक्षाणि सप्तदशसहस्राणि सप्तशतानि षड़िशतिश्च । संभयकाक्षरादि षड्रिंशत्यक्षरावधिप्रस्तारस्य पिण्डसंख्येत्यर्थः । अङ्कतोऽपि १३४२१७७२६ । “एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमजं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संख्याः ॥'
अथ ‘पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥' इति प्रथमं मात्राकृतां जातिमभिधास्यन्गाहूप्रभृतीनां जातीनां कलागणनामुद्देशक्रमेणाह -
होइ गाहू मत्तचऊअण गाहाइ सत्तावणी । तह विग्गाह पलट्टि किज्जइ उग्गाहउ सटिकल ॥ गाहणि आ वासट्ठि किज्जइ । तह वि पलट्टइ सीहिणी बे अग्गल हो सट्ठि ।
सत्तरूअअण्णोण्णगणखन्धमत्तचउसट्ठि ॥ ४७॥ [भवति गाहू मात्राश्चतुष्पञ्चाशद्गाथायाः सप्तपञ्चाशत् । तथा विगाथा परावृत्त्य क्रियते उद्गाथापि षष्टिकला ॥ गाथिनी च द्वाषष्टिः क्रियते । तथैव परावर्तते सिंहिणी द्वयधिका भवति षष्टिः।।
सप्तरूपाण्यन्योन्यं गणानि स्कन्धके मात्राचतुःषष्टिः ॥] . चतुष्पञ्चाशन्मात्रा गाहू भवति । गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तथा विगाथा परावृत्त्य क्रियते । मात्राः परं सप्तपश्चाशदेव । उद्गाथापि षष्टिकलाः । गाथिन्याश्च द्वाषष्टिकलाः । तथैव परावर्तते सिंहिणी । मात्रा द्वाषष्टिरेव । तानि सप्तरूपाणि अन्योन्यं चतुर्मात्रगणानि भवन्ति । स्कन्धके चतुःषष्टिमात्रा भवन्ति । अत्र सर्वत्र सार्धसप्तगणाः स्कन्धके त्वष्टौ गणाः । रड्डा छन्दः ॥