________________
काव्यमाला।
पञ्चमी लघुपतिः सिध्यतीति संक्षेपः । “एवं निरवधिमात्राप्रस्तारेऽङ्कपरम्परा । भवतीति तेन कविना न कृतोऽङ्कानां विस्तारः ॥ अथ षष्ठगुरुपतिपूरणप्रकारमाह-तत्र गुरुस्थानीयं प्रथमं कोष्ठकं विहाय अग्रिमकोष्ठे प्रथममेकाङ्कं दत्त्वा पञ्चमपतिस्थितैद्वितीयादिभिरकैः षष्ठी पङ्गिं पूरय । एवं कृते षष्ठी गुरुपतिः सिध्यतीति । अथोर्वरितचतुर्थवर्णपतिपूरणप्रकारमाह-काउणेति । पञ्चमषष्ठपतिस्थितान्द्येकादीनङ्कान्प्रतिकोष्ठमेकीकृत्य चतुर्थी पङ्गिं पूरय । अत्र षष्ठपतावादिकोष्ठेऽङ्काभावाच्चतुर्थपतिप्रथमकोष्ठे प्रथमाङ्क एव दातव्यः । एवं कृते चतुर्थी वर्णपतिः सिध्यतीति । अत्र लघुगुरुपतिपूरणप्रकारं सबीजं सुगुप्तं च हरिशंकरः पादाकुलकद्वयेनाह
"पहिले पाँती लहुदुइ आणहु सोई ले गुरु दुसरे जाणहु । गुरु दुण्णासौ मत्ता सेख सो लहु दुसरें पिङ्गल लेख ॥ इम परिपाटी लघुगुरु आणहु गुरुलहु जोरि वण्ण पुण जाणहु । मत्ताभीतर गुरु हि मिटावहु तेहू सों पुणि वण्णह जाणहु ॥" लघुपतेः प्रथमकोष्ठे द्वितीयाङ्कमानयत । अत्र प्रथमपदं द्वितीयकोष्टमेव लक्षयति । षट्स्वपि पतिषु प्रथमकोष्ठत्यागादेकाङ्के गणनाभावात्तु गुरुकोष्ठानुपयोगाच्च । तमेव द्वितीयाङ्कमादाय गुरुपतेर्द्वितीयकोष्ठे आनयत । तत्रापि द्वितीयपदं तृतीयकोष्ठपरं ज्ञातव्यम् । अत्र गुरोः प्रथमकोष्ठे प्रथमाङ्क एव देयः । द्वितीयाङ्कस्याग्रे संचारितत्वात् । प्रथमकोष्टे एकगुरुत्वाच्च । अथ लघुपतेद्वितीयकोष्ठे पूरणप्रकारमाह-गुरुदुण्णेति । गुरुकोष्टस्थितानङ्कान्द्विगुणीकृत्य तत्समानमात्राकोष्ठस्थितेष्वड्थेषु लोपय । तच्छेषाङ्क लघुद्वितीयकोष्टेषु लिखेति पिङ्गलो भणितवान् । तद्यथा गुरुपतेर्द्वितीयकोष्ठे द्वितीयाङ्कस्तद्द्विगुणश्चतुर्था
स्तं तत्समानमात्राकोष्ठस्थे नवमाङ्के लोपय । तच्छेषाङ्का दश तान् लघुद्वितीयकोष्ठे लिख। एवमेकगुरुद्वितीयकोष्ठे पञ्चमाङ्कस्तद्विगुणं दश तांस्तत्समानमात्राकोष्ठस्थे विंशतिरूपे लोपय । तच्छेषाङ्का दश तान् लघुटतीयकोष्ठे लिख । अनया परिपाट्या यथेच्छं लघुपकिकोष्ठाङ्कान्गुरुपतिकोष्ठाङ्कांश्वानय । एवं लघुपति च संपाद्योर्वरितां वर्णपतिं साधयतिगुरुलघुपतिस्थितानकानेकीकृत्य तत्समानवर्णपतिकोष्ठकेषु यावदिच्छं लिख। अथ वर्णपतिसाधने प्रकारान्तरमाह-मत्त इति । मात्रापतिस्थिताङ्केषु तत्समानगुरुपतिस्थितानकाल्लोपय । तच्छेषाङ्करपि वर्णपतिः सिध्यतीति जानीहि । इति गुरुणा गोपितोऽपि मया शिष्यबोधाय विविच्य प्रकाशितः। एवं पतिषट्कं संसाध्य मात्रामर्कटीफलमाह-वित्तमिति। 'वृत्तं भेदो मात्रा वर्णा लघुकास्तथा गुरुकाः । एते षट्पतिकृताः प्रस्तारा भवन्ति विस्ताराः ॥' मात्रामर्कटीमाहात्म्यमाह-जत्थ इति । 'यत्र च हस्ती अवरुध्यते बध्यते चित्तं च सूत्रसदृक्षम् । तां मात्रां मर्कटिकां दृष्ट्वा च को न बध्यते सुकविः ॥' को नासक्तो भवतीत्यर्थः । एतत्करणं कौतुकार्थमित्याह-नटेति । 'नष्टोद्दिष्टं यथा वा मेरुयुगलं यथा पताका वा । मर्कटिकापि तथैव कुतूहलकारिणी भणिता ॥' उक्तमुपसंहरति-इऐति । 'इति