________________
२५
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
अथ तत्रैकमात्रादिनिरवधिकमात्राप्रस्तारेषु कतिकतिजातिसंबन्धिवृत्तादयो भव। न्तीति प्रश्ने कृते मात्रामर्कटिकया प्रत्युत्तरं देयमिति मात्रामर्कटीविरचनप्रकारो लिख्यते'या पिङ्गलेन कविना न निबद्धा आत्मनो ग्रन्थे । तां मात्रामर्कटिकां लक्ष्मीनाथेन विरचितां भणत ॥ तत्र तद्विरचनप्रकारे सार्धेन द्विपथा छन्दसा प्रथमपतिसाधनोपायमाह-'मात्रासंख्यया कोष्ठं कुरु पतिषटकं प्रस्तारयित्वा । तत्र द्वादिकानान्धारय प्रथमपतो विचारयित्वा ॥ आद्याक्षं परित्यज्य सर्वपङ्क्तिमध्ये । भो शिष्य, स्वाभिमतमात्रासंख्यया पतिषट्कं यथा स्यात्तथा कोष्ठकं कुरु प्रथमपतौ वृत्तपतौ यावदित्यं क्रमेण व्यादिकानङ्कान्स्थापय । सर्वासां पतीनां मध्ये प्रथमाकं परित्यज्य । अत्रैवं च प्रतिभाति सर्वकोष्ठेषु प्रथमाङ्कत्यागो न सर्वकोष्ठत्यागपरः किं तु षष्ठगुरुपतिप्रथमकोष्ठत्यागपर इति तत्र गुरोरभावात् अतश्च संप्रदायात्पश्चसु कोष्ठेषु प्रथमाङ्कविन्यासोऽवश्यं कर्तव्य एव । अन्यथा वक्ष्यमाणाङ्कविन्यासभङ्गापत्तेः । एवं कृते प्रथमा वृत्तपतिः सिध्यतीति । अथ द्वितीयां प्रभेदयति साधयति चरमार्धेन–'पूर्वयुगलसदृशानान्धारय द्वितीयपनौ विचारयित्वा ।' एवमुक्तं भवति–एकद्वित्रिपञ्चाष्टादीञ्शृङ्खलाबन्धन्यायेन क्रमतो धारय । एवं कृते द्वितीयप्रभेदपतिः सिध्यतीति । अथ तृतीयां मात्रापति साधयति-पढमेति । प्रथमपतिस्थिताङ्केद्वितीयां पङ्किं गुणय यो योऽङ्को यत्र पतति तं तमेव तृतीयपतौ भण। एवंकृते तृतीया मात्रापतिः सिध्यतीति । द्विपथाछन्दांसि । अथ क्रमप्राप्तां चतुर्थी वर्णपतिमुल्लङ्य युगपदेव चतुर्थषष्ठपतयोः साधनार्थ तन्मूलभूतां प्रथमं तावत्पति साधयति-पढमेति । तत्र प्रथमे द्वितीयमकं षट्स्वपि पतिषु प्रथमकोष्ठत्यागाद्वितीयकोष्ठमेवात्र प्रथमं कोष्ठकम् । अतोऽस्मिन्नेव द्वितीयमकं तदपेक्षया द्वितीयकोष्ठके च पञ्चमाकं दत्त्वा ततो बाणद्विगुणं दश तद्विगुणं विंशतिश्चेत्येतौ द्वावको तृतीयचतुर्थयोः कोष्ठयोर्दत्य । विन्यसतेत्यर्थः । अथ तत्र पञ्चमकोष्ठपूरणप्रकारमाह-काउणेति । पञ्चमकोष्ठे स्थितान्यादीनानेकभावं कृत्वा एकीकृत्य तस्मिन्नेकीकृताङ्के एकमधिकं दत्त्वा ततश्च निष्पन्नेनाष्टत्रिंशता पूर्वापेक्षया पश्चमं कोष्ठकं पूर्ण कुरु । अत्रत्यषष्ठकोष्ठपूरणप्रकारमाह-तज्जिअ इति । पूर्वस्मिन्द्वयादिके पञ्चकोष्ठकस्थिताङ्के एकीकृते सत्येतस्मिन्पश्चममङ्कं त्यक्त्वा पुनस्तत्रैकमधिकं दत्त्वा पूर्ववज्जातेनैकसप्तत्या षष्ठं कोष्ठं परिपूर्ण कुरु । अथ सप्तमकोष्ठकपूरणोपायमाह-काउणेति । पञ्चमपतिस्थितानां द्वयादीनामेकभावमैक्यं कृत्वा तेषु पञ्चदशाकं त्यक्त्वा ततस्तेष्वपि चैकं हित्वा सप्तमकोष्ठं त्रिंशदुत्तरेण शताङ्कन पूर्ण कुरुष्वोत शेषः । अष्टमकोष्टपूरणप्रकारमाह-व्यादित्वात्सप्तमपतिस्थितानङ्कानेकीकृत्य तेष्वेकचत्वारिंशदधिकं (शत) परित्यज्य जातेन पञ्चत्रिंशदधिकेन शतद्वयेनाष्टमं कोष्ठं परिपूर्ण कुरु । नवमकोष्ठपूरणप्रकारमाह-द्वयादिकानष्टपतिस्थितानङ्कानेकीकृत्य तेषु नवत्यत दूरीकुरु । ततो निष्पन्नेन विंशत्यधिकचतु:शताङ्केन नवमकोष्ठपूरणं कुरु । दशमकोष्ठपूरणप्रकारमाहद्वयादिकान्नवपतिस्थितानकानेकीकृत्य तेषु सप्ताशीत्युत्तरशताङ्कं दूरीकुरु । ततो निष्पनेन चतुश्चत्वारिंशदधिकसप्तशताङ्केन दशमं कोष्ठं पूरय । एवं कृते चतुर्थषष्ठपतिगर्भा