________________
काव्यमाला।
वृत्त एवेति एकत्र्यष्टभिमिलित्वा जातैदशभिस्तल्लोपे कृते एकोऽवशिष्टः स आद्यस्थाने । सर्वगुर्वात्मकं वक्तव्यम् । षण्मात्रापताका । एवमन्यत्रापि सप्ताष्टकलानां यथाक्रमं पताका ज्ञातव्येति दिक् । वाणीभूषणेऽपि वर्णपताकामुक्त्वा ‘एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि'। पादाकुलकं छन्दः ॥ अथ समाधसमविषमजातिपद्यवृत्तस्थगुरुलघुज्ञानप्रकारमाह
पुच्छलछन्द कला कई पुच्छल वण्ण मिटाव । अवसिटे गुरु जाणिअहु लहु जाणिव्वउ ताव ॥ ४५ ॥ [पृष्टच्छन्दसः कलाः कृत्वा पृष्टं वर्णं लुम्पेत् ।
अवशिष्टैर्गुरुं जानीत लघु जानीत तदा ॥] तथा च सर्वछन्दःसु कति गुरवः कति लघव इति प्रश्ने कृते पृष्टं छन्द उद्भावितचतुष्पदमेव कलाः कृत्वा तासु कलासु छन्दोक्षरसंख्यां लभ्येत् । ततोऽवशिष्टाभिः कलाभिर्गुरुं जानीत । गुरुज्ञाने सति परिशेषाल्लघु जानीयादित्यर्थः । दोहा छन्दः ॥
[पिङ्गलादिभिराचार्यरुज्झितां वर्णमर्कटीम् ।
एकाक्षरादिषड्विंशत्यक्षरावधिलक्षिताम् ॥ ., शब्दैरनतिविस्तीर्णैः प्राकृतैरवहट्टकैः ।
वक्ष्ये लक्ष्यसमायुक्तां पञ्चमे प्रत्यये स्थिताम् ॥] अथ वर्णमर्कटीं पादाकुलकच्छन्दश्चतुष्टयेनाह"छैप्पन्ती पत्थार करिज्जसु अक्खरसंखे कोट्ट धरिज्जसु । पहिली पन्ति वण्ण धरिलिज्जसु दोसरिपन्ति दुण्णपरिदिज्जसु ॥ उप्परअङ्कगुणितकरिलेहि चौठी पन्ति सोइ लिहि देहि । चौठी अद्धा पँचमी पन्ति सोइ छठमा लिहु णिभन्ति ॥ पँचमी चौठी तिअहि मिलाउ पिङ्गल जम्पै अङ्क फलाउ । वित्त पभेअ मत्त अरु वण्णह गुरु लघु जाणिअ एअ सपण्णह ॥ अक्खरमकसि जाणहु लोइ जिहिं जाणे मण आणद होइ । जो बुज्झई सोई पइज्झइ मकलिजाले हत्थिअ रुज्झइ ॥ लच्छीणाहेण कहे एम मक्कलिआए पवधम्मे । पेक्खह वण्णसकुण्डं मक्कलिअम्बुह अण्णारुण्डम् ॥" १. 'पूछल' रवि०. २, ‘पूछल अङ्क रवि०. ३. टीकाकर्तुः कृतिरियम् , न तु मूलम् .