SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ . १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । तत्रैकाक्षरादि षड्डिंशत्यक्षरावधिवर्णप्रस्तारेषु कतिवृत्तादयो भवन्ति इति प्रश्ने कृते वर्णमर्कटिकया प्रत्युत्तरं देयम् । तद्विरचनप्रकारो लिख्यते-छप्पन्ती षट्पङ्ख्या मनोहराकारया प्रस्तारं कुरु । तत्रैकाक्षरादि षड्विंशत्यक्षरसंख्यया कोष्ठकं धारय विधेहीत्यर्थः । तत्र प्रथमपतौ वृत्तपतौ एकादिकान् षड्विंशतिपर्यन्तवर्णास्तत्संकेतरूपानान्धारय । लिजसु गृहाण । वृत्तानीति शेषः । एवंकृते प्रथमा वृत्तपतिः सिध्यति । अथ द्वितीयां प्रभेदपङ्गिं साधयति-दोसरीति । ततो द्वितीयायां प्रभेदपतौ तद्विगुणान्पूर्वस्थापितवर्णद्विगुणान्प्रभेदसंकेतरूपान्द्व्यादिकानान्कृत्वा देहीत्यर्थः। एवं कृते द्वितीया प्रभेदपतिः सिध्यति । अथ क्रमप्राप्तामपि तृतीयां मात्रापतिमुल्लङ्घय तन्मूलभूतां चतुर्थी वर्णपतिं साधयति-उप्परेति । अत्र स्थितरित्यध्याहार्यम् । तथा चोपरि स्थितैः प्रथमपतिस्थितैरेकद्वित्र्यादिभिरबैद्विती. यपतिस्थितान् द्विचतुरष्टादिक्रमेण स्थितानङ्कान्गणयित्वा गृहाण । पुनस्तानेवाङ्कान्द्विगुणितान्घ्यष्टचतुर्विंशेत्यादिक्रमेण चतुर्थपको लिखित्वा देहि स्थापयेत्यर्थः । एवं कृते चतुर्थी वर्णपतिः सिध्यति । अथ पश्चमषष्ठपतयोर्गुरुलघुपतयोः पूरणोपायमुपदिशति-चौठीत्युत्तरा. धैन । ततश्चतुर्थपतिस्थितार्धाङ्कानेकचतुर्द्वादशादिकानङ्कान्पश्चमषष्ठपतयोनिभ्रमं यथा स्यात्तथा लिख । चतुर्थार्धाङ्कान्पश्चभ्यां लिखितानेवार्धाङ्कान्षष्ठयां लिखेति । एवं पञ्चमषष्ठपती गुरुलघुरूपे सिध्यतः । एवं पतिद्वयं साधयित्वा अथोर्वरितां दृतीयां मात्रापङ्गिं साधयति-ततः पञ्चमपतिस्थितानेकचतुर्दादशानांश्चतुर्थपतिस्थितान्द्यष्टचतुर्विशेत्यादिकान. ङ्कांश्चैकीकृत्य त्रिद्वादशषट्त्रिंशदादिरूपतामापाद्य तृतीयपतौ मेलय । एकीकृत्य लिखेत्यर्थः । एवं पिङ्गलो जल्पति । एवं कृते तृतीया मात्रापतिः सिध्यति । वर्णमर्कटीफलमाहवित्तेति । एकाक्षरादीनि वृत्तानीत्यर्थः । प्रभेदांस्तत्प्रमेदान्मात्रास्तत्तन्मात्राः वर्णान्गुरूंल्ल. घूस्तत्तद्वत्तगुरुलघून् । इति त्रयोदशवर्णमर्कटी । एवमन्यापि मर्कटी समुन्नेया सुधीभिरित्यलं पल्लवितेन । तेन संपन्नान् सिद्धाञ्जानीहि । हे लोकाः, एवमक्षरमर्कटी जानीत । यस्यां ज्ञातायां मनस आनन्दो भवति । अथ च य एनां बुध्यते स एव वृत्तादीनि बुध्यते नान्यः । ततो मर्कटीजाले हस्ती गजो रुध्यते । दुर्गमत्वादिति भावः । श्रीलक्ष्मीनाथभट्टेन नारायणतनूभुवा । वर्णमर्कटिका प्रोक्ता पञ्चमे प्रत्यये स्थिता ॥ अथ मात्रामर्कटीं सप्रतिज्ञमाह "जा पिङ्गलेण कइणा ण णिबद्धा अप्प गन्थम्मि । तं मत्तामकलिअं लच्छीणाहेण विरचिअं भणह ॥ मत्तासंखे कोठुकरु वन्तिच्छव पत्थारि । तत्थ दुआदिकअङ्काघरि पढमहि पन्ति विचारि ॥ १. इयमपि टीकाकर्तुः कृतिः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy