SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । ज्ञातव्या । अथवा समकलप्रस्तारे वामतः क्रमेण द्वौ चत्वारः षडष्टावनेन क्रमेण गुरुज्ञानम् , विषमे त्वेकत्रिपश्चसप्तेत्यनेन क्रमेण लघुज्ञानमन्ते च सर्वत्र (लघु) सर्वलघुरिति । उभयत्राप्येको द्वौ त्रय इत्यनया सरण्या दक्षिणतो व्युत्क्रमेण भेदज्ञानम् । अत्र च वामभागे सर्वत्रैकैकाङ्कस्थले सर्वगुरुरिति शिवम् । वाणीभूषणेऽप्युक्तम्-'द्वयं द्वयं समं कोष्ठं कृत्वा तेध्वेकमर्पयेत् । एवं ड्येकत्येकचतु:क्रमेण प्रथमेष्वपि ॥ शीषाकाप्तपराङ्काभ्यो शेषकोष्ठान्प्रपूरयेत् । मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥ दोहापादाकुलकच्छन्दसी ॥ अथ मात्रापताकामाह उद्दिढे सिरअङ्का थप्पहु वामावत्ते परलइ लुप्पहु । एकलोप एकगुरु आण दुइतिणिलोपे दुइतिणि जाण । मत्तपताका पिङ्गल गाव जो पावइ सो परिहि झुंझाव ॥४४॥ [उद्दिष्टसदृशाङ्काः स्थाप्या वामावर्तेन"......."लोपयेत् । एकलोपे एकगुरुमानय द्वित्रिलोपे द्वित्रान् जानीहि । मात्रापताकां पिङ्गलो गायति यः प्राप्नोति स परं बोधयति ॥] उद्दिष्टसदृशा अङ्काः स्थाप्याः। ते यथा—एकद्वित्रिपश्चाष्टत्रयोदशाद्याः । ततो वामावर्तेन सर्वान्तिममकं तत्पूर्वेणाङ्केन लोपयेदित्यर्थः । एकेनाङ्कनाग्रिमाङ्कलोपे कृते एकगुरुरूपमानय अन्तिमलोपे द्विगुरुरूपमानय त्रिभिरन्तिमाङ्कलोपे त्रिगुरुरूपमानयेत्यादि ज्ञेयम् । एतादृशीमेनां मात्रापताकां पिङ्गलः शेषनागो गायति । अथ च य एनां प्राप्नोति स परं जनं पताकां बोधयतीत्यर्थः । तत्र षट्कलप्रस्तारे यथा उद्दिष्टसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदश स्थाप्याः ततः सर्वापेक्षया परस्त्रयोदशाङ्कस्तत्पूर्वोऽष्टमाङ्कस्तेनाष्टमाङ्कन त्रयोदशाङ्कावयवे लुसेऽवशिष्टाः पञ्च । तस्य पश्चमाङ्कस्य तत्पूर्वत्र विद्यमानत्वादष्टमाङ्कलोपात्परकलया गुरुभावाच्च पञ्चमाङ्कात्पतिक्रमो विधेय इति तथा च पञ्चमस्थाने ।।।। एवमाकारं रूपमेकगुर्वस्तीति ज्ञानं पताकाफलम् । एवमन्यत्रापि गुरुभावो ज्ञातव्यः । तथा पञ्चभित्रयोदशाङ्के लुप्तेऽष्टाववशिष्यन्ते ते तु पश्चाधो लेख्याः । तथा त्रिभित्रयोदशलोपे दशावशिष्यन्ते तेऽष्टाधो लेख्याः । तथा द्वाभ्यां त्रयोदशलोपे द्वाववशिष्यन्ते । द्वयोर्विद्यमानत्वात् । परकलया गुरुरित्युक्तेश्च द्वितीयाङ्कमारभ्य गुरुपतिसंचारः । ततो द्वाभ्यामष्टभिश्च तल्लोपे त्रयो व्यधः । तत एकाष्टभिस्तल्लोपे चत्वारि त्र्यधः । ततः पञ्च । त्रिभिस्तल्लोपादवशिष्टः पञ्चमाङ्को वृत्त एवेति पञ्चभिभ्यां च तल्लोपे षट् चतुर्णामधः । पञ्चैकेन तल्लोपे सप्त । षडधो द्वित्रिलोपो वृत्त एवेति एकत्रिभिस्तल्लोपेन च सप्ताध इति द्विगुरुस्थानानि षट् मेरावुक्तत्वात् । तथा त्रिलोपे त्रिगुरुरूपमानयेति त्रिपश्चाष्टलोपे भागो नास्ति । द्वित्रिपश्चलोपोऽप्यष्टात्मको वृत्त एवेति पञ्चद्व्येकलोपोऽप्यष्टलोपात्मको वृत्त एवेति एकद्वित्रिलोपोऽपि १. 'जाणहु' रवि०. २. 'जाणहु' रवि०. ३. 'गावहु' रवि०. ४. मिलावहु रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy