SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २० काव्यमाला। पताकाप्रयोजनं तु मेरौ । चतुर्वर्णप्रस्तारस्यैकं रूपं सर्वगुरु । चत्वारि त्रिगुरूणि । षििधगुरूणि । चत्वार्येकगुरूणि । एकं सर्वलध्वात्मकमस्ति । तत्र षोडशभेदभिन्ने चतुर्वर्णप्रस्तारे कतमस्थले सर्वगुर्वात्मकं कतमस्थाने च त्रिगुर्वात्मकं कतमस्थाने च द्विगुर्वात्मकं कतमस्थाने चैकगुर्वात्मकं कति वा प्रस्तारसंख्येत्यादिप्रश्ने पताकयोत्तरं दातव्यम् । वाणीभूषणे तु–'अङ्कमुद्दिष्टवद्दत्त्वा शेषे पूर्वानपासयेत् । एकेनैकगुरु ज्ञेयं द्वयं द्वाभ्यां त्रिभित्रयम् ॥ एषा वर्णपताका प्रकीर्तिता काहि राजस्य (?) । एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि ॥' अरिल्ला छन्दः॥ अथ मात्रामेरु: दुइदुइ कोट्ठा सरि लिहहु पढमअङ्क तसु अन्त । तसुआइहि पुणु एक सउ पढमे वे वि मिलन्त ॥ ४२ ॥ सिरअङ्के तसु सिरपरअङ्के उअरलकोट्ठ पुरहु नीसङ्के । मत्तामेरु अङ्कसंचारि बुज्झहु बुज्झहु जण दुइ चारि ॥ ४३ ॥ द्वे द्वे कोष्ठे सदृशे लेखनीये प्रथमोऽङ्कस्तस्यान्ते । ___ तस्यादौ पुनरेकेन समं प्रथमे द्वावपि मिलतः ॥ शिरोङ्कस्तेषां शिरःपराबैरुर्वरितं कोष्ठं पूरय निःशङ्कम् । मात्रामेरुं अङ्क संचारयित्वा बुध्यध्वं बुध्यध्वं जना द्वौ चत्वारः ॥] अन्येषामत्र प्रवेश एव न । दुर्गमत्वादिति भावः । एवमुक्तं भवति । प्रथमे कोष्ठद्वयम् । तथा द्वितीयेऽपि । तृतीये कोष्ठत्रयम् । तथा चतुर्थेऽपि । पञ्चमे चत्वारि । तथा षष्ठेऽपीत्यादि । एककलायाः प्रस्तारो नास्तीति कोष्ठद्वयात्मिकवादौ पतिरिति । एवं कोष्ठपङ्क्तिध्वघोधः क्रमेणाङ्कान् लिखेत् । सर्वत्र च शेषकोष्ठे प्रथमाङ्को देयः । तत्र कोष्ठद्वयमध्ये आदावुपरि कोष्ठे चैकस्वरूपोऽङ्को देयः । तस्योपरिस्थाङ्काभावादुत्सर्गसिद्ध एव प्रथमोऽङ्कः । अन्ते लेक एवाधः । द्वयमधो मिलतीतीयं प्रक्रिया । प्रथमकोष्ठद्वयस्य पूरितवाहितीयादारभ्य देयम् । तत्र द्वितीये द्वयम् । तृतीये पुनरेकम् । चतुर्थे त्रयम् । पञ्चमे पुनरेकम् । षष्ठे चत्वारि । सप्तमे पुनरेकम् । इति प्रक्रियया आद्येऽङ्का देयाः । मध्ये शून्यकोष्ठेष्वेषा प्रक्रिया । पूरणीयकोष्ठशिरःकोष्ठाङ्कपरकोष्ठस्थाङ्कौ द्वावप्येकीकृत्य मध्यकोष्ठेऽङ्को देयः । एवं सर्वत्र यावदिच्छं कोष्ठकान्विरचय्य मात्रामेरुः कर्तव्यः । अत्रेदमनुसंधेयम्-कतिसमकले लघवः कति च गुरवः । कति विषमकले लघवः कति च गुरवः । कति वा प्रस्तारसंख्येति प्रश्ने मेरुणा प्रत्युत्तरं देयम् । तत्र द्विकले समप्रस्तारे एकः सर्वगुरुः । द्वितीयो द्विकलात्मकः सर्वलघुरिति संकेतः । त्रिकले विषमे द्वावेककलौ एकगुरुको चान्ते सर्वलघुस्त्रिकल इति समकले । चतुष्कले चादौ द्विगुरुः स्थानत्रये चैकगुरुकिलश्चान्ते सर्वलघुरिति । एवमनेन प्रकारेण यावदिच्छं मात्रा मेरावभीष्टमात्राप्रस्तारेषु लघुगुरुप्रक्रिया
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy