________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
१९
मेरुणा प्रत्युत्तरं देयम् । तत्रैकाक्षरादिक्रमेण षड्विंशत्यक्षरावधि कोष्ठकान्विरचय्य आदावन्ते च कोष्ठके प्रथमाङ्को देयः मध्यस्थकोष्ठके च तदीयशिरः कोष्ठद्वयाङ्कं शृङ्खलाबन्धन्यायेनैकीकृत्यापरं शून्यकोष्ठकमेकीकृताङ्केन पूरयेत् । एवमन्यत्रापि पूरणीये कोष्ठके कोष्ठानामुपरिस्थितकोष्ठद्वयाङ्कमुक्तबन्धन्यायेन पूरणं विधेयम् । एकाक्षरे कोष्ठद्वयं द्वपक्षरे कोष्ठत्रयमित्यादि प्रत्यक्षरमेकैकवृद्धया षड्विंशत्यक्षरपर्यन्तं मेरुः कर्तव्यः । तत्रैकाक्षरप्रस्तारे आदावेकगुर्वात्मकस्तदन्ते चैकलघ्वात्मकः । द्वयक्षरे तु सर्वगुरुरादौ मध्ये गुरुद्वयमन्ते च सर्वलघुरिति । अक्षरे चादौ सर्वगुरुः स्थानत्रये द्विगुरुः स्थानत्रये एकगुरुः अन्ते च सर्वलघुरिति । एवं च सुधीभिश्चिन्तनीयम् । सर्वाङ्गेण प्रस्तारसंख्यापि ज्ञायते । तथा च भूषणे – 'कोष्ठमक्षरसंख्यातमन्त्याद्योरेकचिह्नितम् | शीर्षकोष्ठद्वयाङ्कन शून्यं कोष्ठं प्रपूरयेत् ॥' दोहा छन्दः ॥
अथास्य पताकामाह
उद्दिट्ठासरिअङ्का दिज्जसु पुव्वअङ्क परभरण करिज्जसु । पावलअङ्क पढम पैरतिज्जसु पत्थरसंखपताका लिज्जसु ॥ ४१ ॥ [उद्दिष्टसदृशा अङ्का दीयन्तां पूर्वाङ्केण परभरणं क्रियताम् ।
प्राप्ताङ्कः पथमं परित्यज्यतां प्रस्तारसंख्यया पताका गृह्यताम् ॥] प्राकृते पूर्वनिपातानियमात्प्रथमं प्राप्ताङ्कः परित्यज्यताम् । एवमुक्तं भवति – पूर्वाङ्कैः परभरणं कुरु पूरयितव्यपङ्क्तेः प्रधानाङ्कस्य पश्चात्स्थिताः पूर्वाङ्काः । भरणं पूरणं लेखनकोष्ठदानम् । एकत्राधिकस्य प्राप्तौ सा पतिरेव तदङ्कभरणे त्यज्यताम् । प्रस्तारसंख्याया पताका वा वर्धयितव्या । यथा चतुर्वर्णप्रस्तारे एकद्विचतुरष्टाङ्का देया: । अत्रैकाङ्कस्य पूर्वाङ्कासंभवाद्दितीयाङ्कमारभ्य पतिः पूर्यते । तत्र पूर्वाङ्क एकाङ्क एव तस्य परे द्वितीयादयः । ते चाव्यवहितानतिक्रमेण पूर्यन्ते । तथा चैकेन द्वाभ्यां मिलित्वा अङ्को द्वितीयाङ्काधः स्थाप्यः । तत एकेन चतुर्भिश्च पञ्चाङ्कख्यङ्काधः । तत एकेनाष्टभिश्च नवाङ्कः । ततः पङ्क्तिपरित्यागः । प्रस्ताराधिक्यसंभवात् । एतेन चतुर्वर्णप्रस्तारे प्रथमं गुरुः । द्वित्रिपञ्चनवस्थानस्थानि त्रिगुरूणि ब्रूयात् । अथ चतुरङ्कस्याधः पराङ्कमिलिता अङ्का देयाः । तत्र प्रथमः पूरित एवेति त्यज्यते । द्वाभ्यां चतुर्भिर्मिलित्वा षट् चतुरङ्कस्याधः । त्रिभिचतुर्भिः सप्त षड्धः । पञ्चभिश्चतुर्भिमिलित्वा ( आगच्छन् ) नवाङ्क आगत इति न स्थाप्यते । तत अग्रिमाङ्कपरित्यागः । अनन्तरं च द्वाभ्यामष्टभिर्मिलित्वा दश सप्ताधः । ततस्त्रिभिरष्टभिर्मिलित्वा एकादश दशाधः । ततः पञ्चभिरष्टभिर्मिलित्वा त्रयोदश एकादशाधः । ततः पङ्क्तिपरित्यागः । मेरुसंख्यापरिमाणोक्तेः । ततोऽष्टाङ्काधस्ताच्चतुर्भिरष्टभिर्मिलित्वा द्वादश। तदधः षड्डिरष्टभिश्चतुर्दश । ततस्तदधः सप्तभिरष्टभिश्च पञ्चदश । ततः प्रस्ताराधिकाङ्कसंभवान्नाङ्कसंचार: । षोडशाङ्कस्त्वष्टाङ्काग्रे दीयते सर्वलघुज्ञानार्थमिति संप्रदायः ।
१. 'परदिज्जसु' रवि ०.