________________
१६
काव्यमाला ।
गणभगणयोरायतिरुत्तरकालो वर्धते । भृत्योदासीनयोर्यगणजगणयोर्भगणतगणयोर्वा सर्व धनं नश्यति । भृत्यवैरिणोर्यगणरगणयोर्भगणसगणयोर्वा आक्रन्दो हाहाकारो भवति । पततीत्यर्थः । उदासीनो मित्रं च जगणो मगणस्तगणो नगणो वा तदा कार्य किंचिन्मन्दं दर्शयति साधारणं फलं भवति । उदासीनो यदि भृत्यो जगणो भगणस्तगणो यगणो वा तदा सर्वा आयतीश्चालयति । उदासीनोदासीनयोर्जगणतगणयोर्मन्दमशुभं वा शुभं वा किमपि फलं न दृश्यते । उदासीनो यदि शत्रुर्जगणो रगणस्तगणः सगणो वा तदा गोत्रमपि वैरी लक्ष्यते । यदि शत्रुरनन्तरं मित्रं रगणो मगणः सगणो नगणो वा भवति तदा शून्यं फलं भवति । यदि शत्रुभृत्यौ रगणो यगणः सगणो भगणो वा तदा गृहिणी नश्यति । पुनः शत्रूदासीनयो रगणजगणयोः सगणतगणयोर्वा धनं नश्यति । शत्रुस्तथा पुनः शत्रुर्यदि सगणस्तदा नायकः पतति । षट्पदयुग्मेन गणद्वयविचारः कथितः । भूषणेऽपि – 'मित्रयोरुदिता सिद्धिर्जयः स्याद्भृत्यमित्रयोः । मित्रोदासीनयोर्न श्रीः स्यात्पीडा मित्तवैरिणोः ॥ कार्य स्यान्मित्तभृत्याभ्यां भृत्याभ्यां सशासनम् । भृत्योदासीनयोर्हानिर्हाकारो भृत्यवैरिणोः ॥ उदासीनवयस्याभ्यां क्षेमसाधारणं फलम् । स्यादुदासीनभृत्याभ्यामस्वायत्तश्च सर्वतः ॥ उदास्ताभ्यां फलाभाव: परारात्योर्विरोधिता । शत्रुमित्त्रे फलं शून्यं स्त्रीनाशः शत्रुभृत्ययोः ॥ शत्रूदासीनयोर्हानिः शत्रुभ्यां नायकक्षयः ॥' इति ।
अथानन्तरं छान्दसपरीक्षार्थ कौतुकार्थे च मात्राणामुद्दिष्टमाह - पुव्वजुअलसरिअङ्का दिज्जसु गुरुसिरअङ्क सेस मेटिज्जसु । उवरलअङ्क लेखिकहुं आणह ते परिधुअ उद्दिट्ठा जाणह ॥ ३५ ॥ [पूर्वयुगलसदृशाङ्कान्देहि गुरुशिरोङ्कं शेषे लोपय ।
उर्वरितमङ्कं लिखित्वानय एतत्परिपाट्या ध्रुवमुद्दिष्टं जानीहि ॥]
एतदुक्तं भवति – षट्कलप्रस्तारे एको गुरुद्व गुरू (लघु) एको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलेन सदृश: समानाङ्को देयः । आदिकलायां प्रथमाङ्को देयः । पूर्वयुगलाभावादुत्सर्गसिद्धो द्वितीयोऽङ्कस्तदधस्तदनन्तरं पूर्वाङ्कवयमेकीकृत्य तत्संख्यकोऽङ्कोऽग्रे पूर्व युगलसमा - नात्रिपञ्चादिर्देयः । इति पूर्वयुगलक्रमार्थः । अत्र गुरोरुपर्यधश्चाङ्को देयः । द्विकलत्वात् । एतच्च गुरुशिरःपदालभ्यते । एवं तेष्वङ्केषु शेषे चरमेऽङ्के त्रयोदशरूपे या - वन्तो गुरुशिरःस्था अङ्कास्तावन्तो लोप्याः । ते च नव ते अवधिरूपे त्रयोदशाङ्के लोप्याः । उर्वरितमङ्कं प्रकृते चतुरङ्कं मिलित्वा चतुःस्थानकोऽयं गण इत्यानय । ते तत्परिपाट्या ध्रुवमुद्दिष्टं कथिताङ्कस्थानं जानीहीति । एवं च पञ्चकलप्रस्तारे द्वौ लघू एको गुरुरेको लघुश्चेत्येवंरूपो गणः कुत्र स्थानेऽस्तीति प्रश्ने पूर्वयुगलसमानाङ्कान्दत्त्वा शेषेऽष्टमेऽङ्के गुरु१. ‘मेड्डिजसु’ रवि०.