SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । शिरोऽङ्कस्तृतीयोऽको लोप्योऽवशिष्टः पञ्चमाङ्को भवति तस्मात्पश्चमो गणस्तादृशो भवतीति वेदितव्यम् । उद्दिष्टस्य कथितस्य गणस्य स्थानमात्रानयनमुद्दिष्टम् । एवं च सर्वप्रस्तारे प्रथमे शेषे च गणे शफ़ेव नास्तीति द्वितीयस्थानादारभ्यान्त्यात्पूर्वस्थानेषु प्रश्न इति बोद्धव्यम् । भूषणेऽपि-'दत्त्वा पूर्वयुगाङ्कं गुरुशीर्षाङ्क विलुप्य शेषाङ्के । अङ्कुरितोऽवशिष्टैः शिष्टैरुद्दिष्टमुद्दिष्टम् ॥ पादाकुलकं छन्दः ॥ __ अथ मात्रामदृष्टं पृष्टं रूपं नष्टं तच्च षट्कलप्रस्तारे प्रस्तारान्तरे वा अमुकस्थानानि कीदृश(१) इति प्रश्ने उत्तरमाह णढे सव्वकला कारिज्जसु पुव्वजुअलसरिअङ्का दिज्जसु । पुच्छलअङ्क मिटावहि सेख उवरलअङ्क लोपि कहु लेख ॥ ३६॥ जत्थ जत्थ पाविज्जइ भाग एहु कहइ फुर पिङ्गलनाग । परमत्ता लइ गुरुता जाइ जत लेक्खहु तत लेक्खहु आइ॥३७॥ [नष्टे सर्वकलाः कुरु पूर्वयुगलसदृशाङ्कान्देहि । पृष्ठमकं लोपय शेषमवशिष्टमकं विलुप्य कथय लिखित्वा ॥ यत्र यत्र प्राप्यते भाग एवं कथयति स्फुटं पिङ्गलनागः । परमात्रां गृहीत्वा गुरुतां याति यावल्लिखसि तावदेवायाति(?) ॥] एवमुक्तं भवति यत्कलप्रस्तारे प्रश्नस्ताः सर्वाः कलारूपा लघवः क्रियन्ताम् । यथा पूर्वसदृशा अङ्का एकद्वित्रिपश्चाष्टत्रयोदशरूपा अङ्का दीयन्ताम् । शेषे पृष्ठोऽङ्को लोपनीयः । ततश्चावशिष्टे शेषाङ्केऽपरान्विलुप्य लिखित्वा कथय । तत्र प्रकारमाह-यो योऽङ्कः शेषाङ्के लोपयितुं शक्यते स पुनः स्वाधःस्थितकलां परमात्रां चादाय गुरुर्जायते। यथा षट्कलप्रस्तारे द्वितीयस्थाने कीदृशो गण इति प्रश्ने यथाङ्काः स्थापनीयाः पूर्वयुगलसदृशा अङ्का देयाः। शेषाङ्के त्रयोदश । पृष्ठाङ्कलोपे द्वितीयाङ्कलोपे सति एकादशावशिष्टा भवन्ति । तत्राव्यवहिताष्टलोपेऽष्टाधःस्थितत्रयोदशाधःस्थितकलाभ्यामेको गुरुर्भवति । अवशिष्टं त्रयम् । तत्र पञ्चलोपाशक्यत्वात्रिलोपे तृतीयचतुर्थाभ्यामपरो गुरुर्भवति । शेषाङ्कं नावशिष्यत इति प्रथमं लघुद्वयमेव । तथा चादौ लघुद्वयं पश्चाद्गुरुद्वयमेव तादृशो द्वितीयो भवतीत्यर्थः । वाणीभूषणेऽपि–'नष्टे कृत्वा कलाः सर्वाः पूर्वयुग्माङ्कयोजिताः। पृष्ठाङ्कहीनशेषाङ्कं येन येनैव पूर्यते ॥ परां कलामुपादाय तत्र तत्र गुरुर्भवेत् । मात्राया नष्टमेतत्तु फणिराजेन भाषितम् ॥' इति ॥ अथ क्रमप्राप्तं वर्णोद्दिष्ठमाह- . अक्खरउप्पर दुण्णा अङ्का दिज्झिअ सुमुण्णु उहिट्ठा । लहुउप्पर जो अङ्को तं दइ एकेण जाणेहु ॥ ३८ ॥ १. 'पुच्छह' रवि०. २. 'पुच्छह' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy