________________
१४
काव्यमाला ।
तगण सुण्णफल कहइ जगण खरकिरण विसेसइ भगण ठवइ मैङ्गलइ सुकइपिङ्गल परिभासा | जत कव्व गाह दोहइ सुणहु णगण होइ पढमक्खरहिं तसु रिद्धिबुद्धि सेव्वै रहि रणराउल दुत्तर तरइ || ३२ ॥ [मगण ऋद्धि स्थिरकार्य यगणः सुखं संपदं ददाति
रगणौ मरणं संपादयति सगणः सहवासाद्विवासयति । तगणः शून्यं फलं कथयति जगणः खरकिरणान्विशेषयति
भगणः स्थापयति मङ्गलानि सुकविपिङ्गलः परिभाषते । यावत्काव्यं गाथा दोहा श्रूयते नगणो भवति प्रथमाक्षरे
तदा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति रणं राजकुलं दुस्तरं तरति ॥] कवित्वस्य ग्रन्थस्यादौ वा मगणे पतिते ऋद्धिः स्थिरं च कार्य भवति । यगणश्चेत्पतति सुखं संपदं च ददाति । रगणे पतिते मरणं भवति । सगणः सहवासान्निजदेशाद्विवासयति । तगणः शून्यं फलं कथयति । जगणः खरकिरणान्विशेषयति संतापकरो भवति । भगणः कथयति मङ्गलान्येव । तत्र प्रामाण्यं सूचयति – सुकविः पिङ्गलः परिभाषते । तदुक्तम्- 'भो भूमिः श्रियमातनोति यजलं वृद्धिं रवह्निर्मृति सो वायुः परदेशद्रगमनं तव्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ यावत्काव्यं गाथा दोहा वा तत्र प्रथमाक्षरे आदौ नगणश्चेद्भवति तदा तस्य कवेर्नायकस्य वा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति । दुस्तरं रणं राजकुलं च तारयतीति । सुणहु निश्चितं जानीत । भूषणेsपि - 'म : संपदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति सो रगणो निहन्ति राष्ट्रं विनाशयति जस्तगणोऽर्थहन्ता ॥' फलविशेषभेदस्त्वभियुक्तैरुक्तः——वर्ण्यते नायको यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम् ॥ देवता वर्ण्यते यत्र काव्ये कापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पना ॥' इति । किंच 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥ इत्युक्तत्वाच्च । षट्पदच्छन्दः ॥
1
गणद्वयसंयोगेऽपि फलविशेष इति सूचयितुं गणद्वयविचारमाहमित्तमित्त दे ऋद्धिबुद्धि अरु मङ्गल दिज्जइ
मित्तभिञ्च थिरकज्ज जुज्झ णिब्भअ जय किज्जइ ।
१. 'मङ्गलअणेअ कइपिङ्गलभासइ' रवि ० २. 'सव्वउ' रवि ०.