________________
१३
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । विभक्तिवचनरचनमतन्त्रम् । ण इति नन्वर्थे । यद्वा अन्तलघुकेन तगणो भवतीत्यर्थः। एवमष्टौ गणाः । क्रमोऽत्राविवक्षितः । क्रमस्तु वृत्तरत्नाकरे–'सर्वगुर्मो मुखान्तलौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ एतैरेव गणैः समस्तवैखरीसृष्टिाप्ता । तदुक्तं छन्दोरत्नाकरे-'म्यरस्तजनगैलर्टान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव 'विष्णुना ॥' उग्गाहा छन्दः ॥
अथ कवित्वकरणानन्तरं कविनायकयोः क्वचित्पीडा क्वचिच्च समृद्धिदृश्यते तथा तुष्टयतुष्टी तत्र देवतातुष्टयतुष्टी हेतू इति गणदेवता आह
पुहवीजलसिहिपवणो गअण अ सूरो अ चन्दमा गाओ । गणअट्ठ इट्ठदेओ जहसङ्ख पिङ्गले कहिओ ॥ ३०॥ [पृथिवीजलशिखिपवनाः गगनं च सूर्यश्च चन्द्रमा नागः ।
गणाष्टके इष्टदेवा यथासंख्यं पिङ्गले कथिताः ॥] मगणस्य पृथिवी । यगणस्य जलम् । रगणस्य शिखी । सगणस्य पवनः । तगणस्य गगनम् । जगणस्य सूरः । मगणस्य चन्द्रः । नगणस्य नागः । एवं गणाष्टकस्येष्टदेवता यथासंख्यं पिङ्गलेन कथिताः । अत्र यस्य कवित्वस्यादौ यो गणस्तिष्ठति तस्यैव गुणदोषौ ग्राह्याविति । भूषणेऽप्युक्तम् । -'मही जलानलानिलाः स्वरर्यमेन्दुपन्नगाः । फणीश्वरेण कीर्तिता गणाष्टकेष्टदेवताः ॥' . अथ गणानां मित्रामित्रादिकमाह
मगणणगण दुइ मित्त हो भगणयगणहो भिच्च । उआसीण जत दुअउ गण अवसिट्ठउ अरि णिञ्च ॥ ३१॥ [मगणनगणौ द्वौ मित्रे भवतः भगणयगणौ भवतो भृत्यौ ।
उदासीनौ जती द्वौ गणाववशिष्टावरी नित्यम् ॥] मगणो नगणश्च द्वौ मित्रे भवतः । भगणयगणौ भृत्ये भवतः । जगणतगणौ द्वावप्युदासीनौ भवतः । अवशिष्टौ सगणरगणौ नित्यमरीभवतः । भूषणेऽपि-'मैत्र्यं मगणनगणयोर्यगणभगणयोश्च भृत्यता भवति । औदास्यं जतगणयोररिभावः सगणरगणयोरुदितः ॥' इति । इयं च गणमित्रामित्रव्यवस्था कविनायकयोरिति बोद्धव्यम् । दोहा छन्दः ॥ अथ तेषां फलान्याहमगण रिद्धि थिरकज्ज यगण सुह संपअ दिज्जइ
रगण मरण संपलइ सगण सहवास वसिज्जइ ।