________________
काव्यमाला।
बहुविविधप्रहरणैरपि तन्नामभिस्तत्पर्यायैरपि पश्चकलको गणो भवति । पुनश्चतुष्कलस्यैव साधारणां संज्ञामाह
गअरहतुरंगपाइक एह णामेण जाण चउमत्ता ॥ २६ ॥ [गजरथतुरंगपदातय एतन्नाम्ना जानीहि चतुर्मात्रम् ॥] गजः । रथः । तुरंगः । पदातिः । एतन्नाम्ना पर्यायेणापि जानीहि चतुर्मात्रम् । विग्गाहा छन्दः॥ अथ सामान्यतो गुरुनामान्याहताडङ्कहारणेउरकेउरओ होन्ति गुरुभेआ ।
ताटङ्कहारनपुरकेयूराणि भवन्ति गुरुभेदाः ।] ताटङ्कः । हारः । नूपुरम् । केयूरम् । इति गुरुभेदाः । नामभेदा इत्यर्थः । तथैव लघुनामान्याह
सरमेरुदण्डकाहल लहुभेआ होन्ति एताइम् ॥ २७ ॥
[शरमेरुदण्डकाहला लघुभेदा भवन्ति एतावन्तः ॥] शरः । मेरुदण्डः । काहला । लघुभेदा भवन्ति । गाहू छन्दः ॥ अपि च ।
सङ्ख फुल्लकहालं रवं असेसेहिं होन्ति कणअलअम् । रूवं णाणाकुसुमं रसगन्धं सहपरमाणम् ॥ २८ ॥ [शङ्खः पुष्पं काहलः रवः अशेषैर्भवति कनकलता।
रूपं नानाकुसुमं रसगन्धशब्दप्रमाणम् ॥] शङ्खः । पुष्पम् । काहलम् । रवः । अशेषैरेतैः सह कनकलतापि । कनक लता चेति नामद्वयं वा । रूपम् । नानाकुसुमम् । रसः । गन्धः । शब्दश्चेति लघोः प्रमाणं निश्चयेन नामानि भवन्ति । गाहा छन्दः ।। ___ अथ वर्णवृत्तानां गणानाह
मो तिगुरू णो तिलहू लहुगुरुआई यभौ ज मज्झगुरू । मज्झलहू रो सो उण अन्तगुरू तो वि अन्तलहुए ण ॥२९॥ [मस्त्रिगुरुर्नस्त्रिलघुर्लघुगुरुकाद्यौ यभी जो मध्यगुरुः ।
मध्यलघू रः सः पुनरन्तगुरुस्तोऽप्यन्तलघुर्ननु ॥] मो मगणस्त्रिगरुस्त्रयोऽपि वर्णा गुरवो यत्र । नो नगणस्त्रिलघुः । लघुरादौ यस्य स यगणः । गुरुरादौ यस्यासौ भगणः । मध्ये गुरुर्यस्यासौ जगणः । मध्ये लघुर्यस्यासौ रो रगणः । सगणः पुनरन्ते गुरुय॑स्य । तगणोऽप्यन्ते लघुर्यस्य । अवहटभाषायां लिङ्ग