________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
सुरवइपढव्वताला करतालाणन्दछन्देण । णिव्वाणं ससमुई तूरं एहप्पमाणेण ॥ १५॥
[सुरपतिः पटहस्ताल: करताल आनन्दश्छन्दसा ।
निर्वाणं ससमुद्रं तूर्य एतानि प्रमाणेन ॥] आनन्दश्छन्दसा सह । छन्द इत्यपि नामेत्यर्थः । ससमुद्रं समुद्रसहितं तूर्य तूर्यपर्यायेणापि । गुर्वादित्रिकलस्यैतानि नामानि जानीत । गाहू छन्दः ॥
भावारसताण्डवों णारीअं कुणह भाविणिअम् । तिलहुगणस्स कइअरो इअ णामं पिङ्गलो कहइ ॥ १६ ॥ [भावरसताण्डवानां नारीणां कुरुत भामिनीनाम् ।
त्रिलघुगणस्य कविवर इति नाम पिङ्गलः कथयति ॥] भावस्य यन्नाम रसस्य ताण्डवस्य नारीणां भामिनीनां च यानि नामानि तानि सर्वाणि त्रिलघुगणस्य कुरुतेति कविवरः पियलः कथयतीति । ढगणस्य प्रस्तारो यथा-Is, SI, ।।, गाहू छन्दः ॥ अथ द्विकलप्रस्तारे गणद्वयनामान्याह
णेउररसणाभरणं चामरफणिमुद्धकणअकुण्डलअम् । . वकं माणसवलअं हारावलि णेण गुरुअस्स ॥ १७ ॥ [नूपुरो रसनाभरणं चामरं फणी मुग्धः कनकं कुण्डलकम् ।
वक्रो मानसं वलयो हार आवलिरनेन गुरुकस्य ॥] एतेषां पर्यायशब्देनापि गुरोर्नाम जानीहि । गाथा छन्दः ॥
णिअपिअपरमउसुपिए विल्लहुति समासु कइदिटुम् । [निजप्रियः परमसुप्रियः द्विलघोरिति सेमासतः कविदृष्टम् ।] समासतः संक्षेपतः कविना पिङ्गलेन दृष्टं नामेति शेषः । णगणस्य प्रस्तारो यथा-5, 1. अथ लक्ष्यानुसारीणि क्रमतश्चतुष्कलानां नामान्तराण्याह -
अह चौमत्तहणामं फणिराओ पइगणं भणई ॥ १८ ॥ सुरअलअं गुरुजुअलं कण्णसमाणेण रसिरसलग्गम् ।
मणहरणसुमइलम्बिअलहलहि अइता सुवण्णेण ॥ १९ ॥ १. 'छन्दम्' रवि०. २. 'कुलहभावि' रवि०. ३. 'भावः रसस्ताण्डवं नारी कुलभाविनी एतन्नामपञ्चकं' रवि०. ४. 'सुप्प' रवि०. ५. 'समासकविदृष्टं समासकविः पिङ्गलः । अल्पाक्षरेण प्रचुरार्थप्रतिपादकत्वात्' रवि०. ६. 'चउमत्तह' रवि०. ७. 'मण' रवि०. ८. 'लहलहिअन्ता' रवि०.