________________
काव्यमाला।
[अत्र(थ) चतुर्मात्रिकाणां नामानि फणिराजः प्रतिगणं भणति ॥ सुरतलता गुरुयुगलं कर्णसमानेन रेसिको रसलग्नम् ।
मनोहरणं सुमतिर्लम्बितो लहलहितानां सुवर्णेन ॥] कर्णसमानेन नाम्ना सह रसिको रसलग्नश्चेति । कर्णसमानेन कुन्तीपुत्रादिपर्यायग्रहणम् । लहलहितानामुत्पन्नप्रायाणां नानाम् । गुरुयुगनामानि सुवर्णेन सह ज्ञेयानीत्यर्थः ॥ अथान्तगुरोश्चतुष्कलस्य नामान्याह
करपाणिकमलहत्थं बाहो भुअअण्डपहरणअसणिअम् । गअभरणरअणणाणा अभरणं होन्ति सुपसिद्धम् ॥ २० ॥ कॅरपाणिः कमलं हस्तो बाहुर्भुजदण्डः प्रहरणमशनिः ।
गजाभरणं रत्नं नाना जाभरणं भवन्ति सुप्रसिद्धानि ॥] नानाभुजाभरणं केयूरादि । भवन्ति सुप्रसिद्धानि नामानि गुर्वन्तस्यैति । गाथा छन्दः ॥ अथ मध्यगुरोर्नामान्याह
भुअवइअसणरगअवइवसुहाहिवरज्जुगोवालो । उण्णाअकचकवईपअहरथणों णरिन्दाइम् ॥ २१ ॥ [भूपत्यश्वनरगजपतिवसुधाधिपरज्जुगोपालाः ।
उद्गतनायकचक्रवर्तिपयोधरस्तननरेन्द्राः ॥] भूपतिः । अश्वपतिः । नरपतिः । गजपतिः । वसुधाधिपः । रज्जुः । गोपालः । उँगतनायकः । चक्रवर्ती। पयोधरः । स्तनः । नरेन्द्रः । इति नामानि मध्यगुरोश्चतुष्कलस्य । गाहू छन्दः ॥ अथादिगुरोर्नामान्याह
पअपाअचरणजुअलं अवरु पआसेइ गण्डबलहद्दम् । ताअपिआमहदहणं णेउररइजङ्घर्जुअलेहि ॥२२॥ [पदपादचरणयुगलं अन्यत्प्रकाशयति गण्डबलभद्रम् ।
तातपितामहदहनं नूपुररतिजङ्घायुगलेन ॥] , पदम् । पादः। चरणयुगलम् । अवरु अन्यदित्यर्थः । गण्डः । बलभद्रः । तातः । पितामहः । दहनः । नपुरम् । रतिः । जङ्घायुगलेन सह इति नामानि पिङ्गलः प्रकाशयतीति योज्यम् । गाथा छन्दः ॥
१. 'सुरतकं' रवि०. २. 'रसिकमनोलग्न' रवि०. ३. 'भुअअ रवि०. ४. 'करः पाणिकमलं' रवि०. ५. 'भुजाभरणानि' रवि०. ६. 'राजा' रवि०. ७. 'अपरो नायकः' रवि०. ८. 'जुअलेण' रवि०.