________________
२ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । विंशतिरेकाया वर्णा पदे लघवो नव द्वादश भवन्ति दीर्घाः
पिण्डो द्वात्रिंशदग्रं शतं फणिभणिता स्रग्धरा भवति शुद्धा ॥] भोः शिष्याः, यत्र प्रथमं द्वौ कौँ गुरुद्वयात्मको गणौ, ततो गन्धो लघुः, ततो हारो गुरुः, ततो वलयो गुरुः, ततो द्विजगणश्चतुर्लध्वात्मको गणः, ततो हस्तः सगणः, ततो हारो गुरुः पतति, तत एकल एको लघुः, शल्यो लघुः, अनन्तरं कर्णः, ततो ध्वज आदिलघुस्त्रिकलस्तत्सहितः, ततः कङ्कणो गुरुरतिकान्तोऽन्ते यस्य एवमेकाधिका विंशतिः । वर्णाः पदे यत्र तत्र विवेकः-लघवो नव, द्वादश दीर्घा गुरवो भवन्ति । एतेन गुरुद्वैगुण्येन चतुर्विंशतिः, अथ च-नव लघवः, संभूय त्रयस्त्रिंशन्मात्राः पदे तत्पिण्डो द्वात्रिंशदधिकशतमात्रको यत्र (यथा) सा शुद्धा स्रग्धरानामकं वृत्तं भवतीति फणिपतिः पि. ङ्गलो भणतीति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'कर्ण ताटङ्कयुक्तं वलयमपि च सुवर्ण च मञ्जीरयुग्मं पुष्पं गन्धं वहन्ती द्विजगणरुचिरा नपुरद्वन्द्वयुक्ता। शङ्ख हारं दधाना सुललितरसनारूपवत्कुण्डलाभ्यां मुग्धा केषां न चित्तं तरलयति बलात्स्रग्धरा कामिनीव॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ छन्दोमञ्जों तु ‘म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीतितेयम्' इत्युक्तमिति ॥ स्रग्धरामुदाहरति-जहा (यथा)ईसारोसप्पसादप्पणदिसु वहुसो सर्गगङ्गाजलेहिं __ आमूलं पूरिदाए तुहिणकरकलारुप्पसिप्पीअ रुद्दो । जोहामुत्ताहलिल्लं णदसिर णिहिदं अग्गहत्थेहि दोहिं
अग्धं सिग्धं दअन्तो जअइ गिरिसुआपाअपङ्केरुहाणम् २६२ [ईर्ष्यारोषप्रसादप्रणतिषु बहुशो स्वर्गगङ्गाजलै
रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रुद्रः । ज्योत्स्नामुक्ताफला। नतशिरसि निहितमग्रहस्ताभ्यां द्वाभ्या
मयं शीघ्रं ददज्जयति गिरिसुतापादपङ्केरुहयोः ॥] कर्पूरमञ्जरीसाटकस्थं नान्दीपाठकस्य वचनम्-ईर्ष्यारोपप्रसादप्रणतिषु स्वर्गगङ्गाजलै. रामूलं बहुशो मुहुः पूरितया तुहिनकरकलारूप्यशुक्त्या गिरिसुतापादपङ्केरुहयोगिरीन्द्रनन्दिनीचरणारविन्दयो तशिरसि निहितं ज्योत्स्नामुक्ताफलयुक्तं द्वाभ्यामग्रहस्ताभ्यां शीघ्रमय॑ ददद्रुद्रः शिवो जयति सर्वोत्कर्षेण वर्तत इत्यन्वयः ॥ यथा वाणीभूषणे]–'अन्त्रप्रोतास्थिमालावलयविलसद्वाहुदण्डप्रचण्डा वेगव्यालोलमुण्डावलिकलितरणत्कारकण्ठो. पकण्ठाः । कुर्वन्तो गर्वमत्युद्गलगहनवलद्धघरध्वानमुच्चैरुत्कृत्तैरुत्तमाङ्गैर्विदधति च शिरः कन्दुकक्रीडितानि ॥' उद्दवणिका यथा-5s, ss,1, 5, 5, m, us, s,i, ss, is,
१. 'मउलिणिहितगा (मौलिनिहिता)' इति रवि०.