________________
२१२
काव्यमाला ।
ऽ, २१×४=८४ ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम् - 'व्याकोषेन्दीवराभा कनककषलसत्पतिवासा सुहासा बरुच्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा । अंसव्यासक्तवंशध्वनि सुखितजगद्बह्रवीभिर्लसन्ती मूर्तिर्गोपस्य विष्णोरवतु जगति वः स्रग्धराहारिहारा ॥ स्नग्धरा निवृत्ता ॥
अथ नरेन्द्रच्छन्द:
आइहिँ जत्थ पाअगण पअलिअ जोहल अन्त ठवीजे
काहल सद्द गन्ध एम मुणिगण कङ्कण जाहॅ करीजे । सद्दइ एक तत्थ चल णरवइ पूरहु सङ्घ सुभव्वा
चामरजुग्ग अन्त जहि अलिअ एहु णरेन्दउ कव्वा ।। २६३।। [आदौ यत्र पादगणः प्रकटितो जोहलोऽन्ते स्थाप्यः
काहलः शब्दो गन्धो एवं मुनिगणः कङ्कणो यत्र क्रियते । शब्द एकस्तथा चलति नरपतिः पूर्यतां शङ्खः सुभव्यश्चामरयुग्ममन्ते यत्र प्रकटितमेतन्नरेन्द्रं काव्यम् ||]
-
भोः शिष्याः, यत्रादौ पादगणो भगणः प्रकटितो भवति, ततो जोहलो रगणः स्थाप्यते, ततः काहलो लघुः, ततः शब्दो लघुः, ततो गन्धो लघुरेव, एवं मुनिगणश्चतुर्लघुको गणः, ततः कङ्कणो गुरुर्यत्र क्रियते, ततः शब्दो लघुरेको यत्र तथ्यं सत्यम्, ततो नरपतिर्जगणश्चलति, ततः सुभव्यः शङ्खो लघुः पूर्यताम्, ततश्चामरयुग्मं गुरुद्वन्द्वमन्ते यत्र प्रकटितम् एतन्नरेन्द्राख्यं काव्यं छन्द इत्यर्थः ॥ अथ च - यदा नरपतिश्चलति तदैतत्सर्वं भवति । यथा पूर्वे गणाः प्रचरन्ति ततः काहलशब्दो भवति, तदनन्तरं गन्धस्य कर्पूरागुरुसारादेर्ज्ञानम्, तदनन्तरं कङ्कणादिभूषणं प्रसन्नेन नरेन्द्रेण महावीरेभ्यो दीयत इत्यादि तादृशध्वनिविशेषरूपेऽर्थे यथायुक्तं योजनीयं सुमतिभिरित्युपरम्यते ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्— 'चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसंगतगन्धः । चारुसुवर्णकुण्डलयुगललितरोचिरलंकृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥'
नरेन्द्रमुदाहरति - जहा (यथा ) -
फुल्ल केसु चैम्प तह अलिअ मञ्जरितेजिअ चूआ दक्खिणवाउ सीअ भइ पवहइ कम्प विओइणिहीआ |
अधूलि सव्वदिस पसरिअ पीअरु सव्वज भासे
आउ वसन्त काइ सहि करिहउ कन्त ण थक्कइ पासे || २६४||
१. 'भेरी' रवि ० २. 'चन्द (चन्द्र: ) ' रवि ०.