________________
२१०
काव्यमाला।
यथासदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां __ तयोरूर्वं राजत्तरलकिसलया श्लिष्टसुस्निग्धशाखा । लसन्मुक्तारक्तोत्पलकुवलयवञ्चन्द्रबिम्बाश्चिताया
महो शोभा मौलौ मिलदलिपटलैः कृष्ण सा कापि वल्ली २५८ उद्दवणिका यथा-Iss, sss, o,m, s, sis, sis, 5, २०४४=८०॥ शोभा निवृत्ता ॥
अथ सुवदना छन्दःज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना ॥ २५९ ॥ यत्र सप्तभिरश्वैः सप्तभिरेव, ततश्च षड्भिविरतिः, अथ च-मगणरगणभंगणनगणयगणाः, ततो भ्लौ भगणलघू ततश्चान्ते गुयंत्र सा सुवदना ज्ञेया ॥
यथा
प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासास्रनयना
त्वां धायन्ती निकुञ्ज परतरपुरुषं हर्षोत्फुल्लपुलका। आनन्दाश्रुप्लुताक्षी वसति सुवदना योगैकरसिका
कामाति त्यक्तुकामा ननु नरकरिपो राधा मम सखी ॥२६०॥ उद्दवणिका यथा-sss, sis, su, m, iss, su,1, 5, २०x४-८० ॥ सुवदना निवृत्ता॥
अत्रापि प्रस्तारगत्या विंशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्च शतानि १०४८५७६ भेदा भवन्ति । तेषु विस्तरभीत्या कियन्तो भेदा लक्षिताः । शेषभेदास्तु सुबुद्धिभिराकरात्स्वमत्या वा प्रस्तार्य सूचनीया इति दिक् ॥ अथैकविंशत्यक्षरप्रस्तारे स्रग्धराछन्दोऽभिधीयतेवे कण्णा गन्धहारा वलअदिअगणा हत्थहारा पलन्ता ___ एकल्ला सल्ल कण्णा धअगणसहिआ कङ्कणा अन्त कन्ता । वीसा एकग्ग वण्णा पअहि लहु णवा वारहा होइ दीहा
पिण्डा बत्तीसअग्गा सउ फणिभणिआ सद्धरा होइ सुद्धा २६१ [द्वौ की गन्धहारौ वलयद्विजगणौ हस्तहारौ पतन्ति
एकलः शल्यः कर्णो ध्वजगणसहितः कङ्कणोऽन्ते कान्तः । १. 'एकग्गला जं पलइ लहुगुरू (एकाप्रका यत्र पतन्ति लघुगुरवः)' इति रवि०.