________________
काव्यमाला।
कुत्रचित्स्थले संयुक्तः परो यस्य एवंविधाः पूर्वो वर्णो लघुरेव भवति । दर्शनेन लक्ष्यानुरोधेन यथा । उदाहियत इति शेषः । युवतीनेत्रप्रान्ते संपन्नं चित्तधैर्य परिस्खलति । अत्र ह इत्यस्य संयुक्तपरस्यापेक्षया पूर्वस्य रिकारस्य गुरोर्लघुत्वम् । तथात्वे छन्दोभङ्गप्रसङ्गः । गाथा छन्दः ॥ अपवादान्तरमाह
इहिकारा बिन्दुजुआ एओ सुद्धा अ वण्णमिलिआ वि लहू । रह वञ्जणसंजोए परे असेसं पि सविहासम् ॥ ४॥ [इकारहिकारौ बिन्दुयुतौ एऔ शुद्धौ च वर्णमिलितावपि लघू ।
रेफहकारौ व्यञ्जनसंयोगे परे अशेषमपि सविभाषम् ॥ इकारहकारौ बिन्दुयुतौ तथा एकारौकारौ च शुद्धौ एकलौ वर्णमिलितौ च तथैव रेफहकारावपि व्यअनेन सह संयुक्ता अपि सर्वे गुरवोऽपि विकल्पेन क्वचिल्लघवो भवन्ती. त्यर्थः । सिंहिणी छन्दः ॥ एतदेवोदाहरणेन दृढीकरोति जहा-यथा -
माणिणि माणहिँ काँई फल ऍओ जे चरण पडु कन्त। . सहजे भुअंगम जइ णमइ किं करिए मणिमन्त ॥ [मानिनि मानेन किं फलं अयं यदि चरणयोः पतितः कान्तः।
सहजेन भुजंगमो यदि नमति किं क्रियते मणिमन्त्रौ ॥] मानिनि, मानेन किं फलं प्रयोजनं अयं यदि कान्तश्चरणयोः पतितः । तदा त्यजैनं निष्फलं मानमित्यर्थः । यदि स्वभावादेव भुजंगमः कामुको नमति तदा स्त्रीभिः प्रियवशीकरणाय मणिमन्त्रौ किं क्रियते । न किमपीत्यर्थः । अर्थान्तरे च भुजंगमः सर्पो यदि स्वभावेनैव नमति शान्तो भवति तदा गारुडोद्गारिमणिमन्त्री किं क्रियते । अपि तु न क्रियेते । प्राकृते तु हिं काई इत्यत्र इकारहिकारौ बिन्दुयतावपि लघूभवतः । केवलौ एकारौकारौ लघु । जे इत्यत्र जवर्णमिलित एकारोऽपि लघुः । एंओ यदीत्यर्थे ॥ रहवअणस्स जहा-'रेफहकारव्यञ्जनयुक्तस्य यथा'
चेज सहज़ तुहुँ चञ्चला सुन्दरिद्वदहिँ वलन्त ।
पअउ ण घल्लसि खुल्लणा कीलसि उण उहसन्त ॥ १. 'इहिआरा' रवि०. २. 'किं करिअए' रवि०. ३. 'मानैः'. रवि०. ४. 'एष' रवि०. ५. 'कुरुतः' रवि०. ६. “एओ जे इति वारेन्द्री भाषा । एष यदीत्यर्थः' रवि०. ७. 'चेड' रवि०. ८. 'खुल्लणा इति देशी अशे वर्तते' इति रवि०. ९. 'क्रीडसि' रवि०.