________________
१ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् ।
दीर्घः संयुक्तपरो बिन्दुयुतः पातितश्च चरणान्ते ।
स गुरुर्वको द्विमात्रोऽन्यो लघुर्भवति शुद्ध एककलः ॥] दीर्घाः-आ, ई, उ, ऋ, ए, ओ, अं। स्वरान्तस्य प्राकृते ओकारादेशस्तेन तद्हणम् । तथा संयुक्तः परो यस्य एवंविधः पूर्वो वर्णः। प्राकृते एतावन्त एव । अत एवो. क्तमभियुक्तैः–“एओअंमलपुरओ सआरपुढेहि वेवि वण्णाओ । कच्चतवग्गे अन्ता दह वण्णा पाडवे ण ह्वअन्ति ॥' अस्यार्थः- ए ओ अंम ल इति पञ्च वर्णानां पुरतः ऐ
औ अः य व इति पञ्चैव । सकारस्य पश्चाहावपि वर्णी शषौ । कचतवर्गाणामन्त्यास्त्रयः ङजनाः । संभय दश वर्णाः प्राकृते न भवन्ति । चरणान्ते पातितो वा गुरुरिति । एवंविधो यो वर्णः स गुरुर्भवति । अत्र विकल्पार्थे चकारः। किंरूपो गुरुरित्यपेक्षायामुच्यते-वक्रः अनृजुः । सोऽपि कतिमात्र इत्युच्यते-द्विमात्रो द्विकलः । उक्तं च'गुरुस्तु द्विकलो ज्ञेयो नागदन्तसमाकृतिः' इति । अन्यो द्वितीयो लघुर्भवति । कीदृशः। शुद्धोऽवक्रः । एककल एकमात्रः । उक्तं च–'लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकी. तितः' इति । ताभ्यामेव गणापन्नाभ्यां प्रयोजनमिति । गाथा छन्दः ॥ तानुदाहरणेन दृढीकर्तुमाह
भाई रूए हेओ हिण्णो जिण्णो अ बुडओ देओ । संभुं कामन्ती सा गौरी गहिलत्तणं कुणइ ॥ [मातः, रूपैर्हेयो हीनो जीर्णश्च वृद्धो देवः ।
शंभुं कामयमाना सा गौरी अहिलत्वं करोति ॥] पार्वत्या शंभौ वृते विजयादीनामन्योन्यं संलापः । मातरयं वरो रूपेण हेयस्त्रिनेत्रत्वात् । हीनो जात्यादिना अलक्ष्यजन्मत्वात् । जीर्णश्च रोगादिना कण्ठस्थितविषत्वात् । वृद्धो वयसा । यद्वा अवृद्धोऽसमृद्ध इत्यर्यः । दिगम्बरत्वात् । देवः दीव्यति क्रीडतीति देवः पाक्षि(शि)कः । श्मशानवासक्रीडासक्त एतादृशः । तमपि शंभुं कामयमानाभिलषमाणा गौरी अहो अहिलत्वमपि(ति)निर्बन्धं करोतीत्युपहासः । अत्र माईत्यादि दीर्घोदाहरणम् । हिण्णो जिष्णो इति संयुक्तपरोदाहरणम् । संभुं (इति) सानुस्वारोदाहरणम् । कुणइ इत्यत्र पादान्तलघोर्गुरुत्वोदाहरणमिति । गाथा छन्दः ।। एवं लक्षणेन गुरुलघूनुपलक्ष्य कुत्रचित्तयोरपवादमाह
कत्थवि संजुत्तपरो वण्णो लहु होइ दंसणेण जहा । परिह्रसइ चित्तधिज्जं तरुणिकडक्खम्मि णिव्वुत्तम् ॥ ३॥ [कुत्रापि संयुक्तपरो वर्णो लघुर्भवति दर्शनेन यथा ।
परिस्खलति चित्तधैर्य तरुणीकटाक्षे निवृत्तम् ॥] १. मूलपुस्तके रविकरकृतटीकायां च‘माई' इत्यस्मात्प्राक् ‘जहा (यथा)' इत्यधिकमस्ति.