________________
काव्यमाला।
किं च मत्कृतिरियं चमत्कृतिं चेन चेतसि सतां विधास्यति ।
भारती व्रजतु भारतीव्रया लज्जया परमसौ रसातलम् ॥ प्रन्थारम्भे ग्रन्थकृदभिमतसिद्धये छन्दःशास्त्राधिष्ठातृपिङ्गलनागानुस्मरणलक्षणं मङ्गलमाचरति
जो विविहमत्तसाअरपारं पत्तो विविमलमइहेलम् । पढमब्भासतरण्डो गाओ सो पिङ्गलो जअइ ॥ १॥ [यो विविधमात्रासागरपारं प्राप्तो विविमलमतिहेलम् ।
प्रथमभाषातरण्डो ज्ञातः स पीङ्गलो जयति ॥] गरुडवञ्चनारूपगुरुबुद्धिमाहात्म्येन विविमलमतिहेलं विः पक्षी गरुडस्तस्य विमला या मतिर्बुद्धिस्तस्या हेला अनादरो यस्मिन्कर्मणि एवं यथा स्यात्तथा स पिङ्गलः शेषनागो जयति । स कः । यो ज्ञातः । अर्थाद्गरुडेन । पिङ्गलनागोऽयं ब्राह्मणरूपस्तिष्ठतीति । कीदृशः । विविधमात्रारूपसागरपारं प्राप्तः । यद्वा विविधमात्राभिः प्रस्तारं कुर्वन्समुद्रपारं प्राप्तः । पुनः कीदृशः । प्रथमं भाषाया अवहट्ट(अपभ्रंश)भाषायास्तरण्डस्तरणिरित्यर्थः । 'पादालिन्दी तरण्डो नौः' इति हारावली । संस्कृते त्वाद्यकविर्वाल्मीकिः । प्राकृते शालिवाहनः । भाषाकाव्ये पिङ्गलः । अव एत प्रथमपदोपादानम् । प्रसिद्धं चैतल्लोके कथानकम्-एकदा शेषनागो ममोपरि कियती भूमिरस्तीति पृथिव्या विस्तारं जिज्ञासुः पिङ्गलनामा ब्राह्मणो भूत्वा भुवमवातरत् । अनन्तरं च गरुडः प्रसिद्धवैरत्वात्तं जिघत्सुईरादधावत् । तदा पिङ्गलस्तमवादीत्–'अहं कविर्मम कौशलं पश्य यदेकत्र लिखामि न तदन्यत्रेति । यद्येकाकारमकं पश्यसि तदा मां खादिष्यसीति तेनानुमत एकाक्षरादिषडिंशत्यक्षर(पर्यन्तं) प्रस्तारं कृत्वा समुद्रतीरपर्यन्तं गतवान् तं वञ्चयित्वा जलं प्रविवेश । अथ 'सांयात्रिकः पिङ्गल: स्याच्छेषनागोऽपि पिङ्गलः' इति कोषमहिना स पिङ्गलः पोतवणिग्जयति । स कः । यो विशिष्टमतिहेलं यथा स्यात्तथा विविधया अनेकरूपया मात्रा धनेन वाणिज्यं कर्तु सागरपारं प्राप्तः । कीदृशः । प्रथममेव भासमानस्तरण्डो नौर्यस्य भाभिः कान्तिभिरस्यते क्षिप्यते इति भासस्तादृशस्तरण्डस्तरिय॑स्येति वा । पुनः । ज्ञातः । अर्थादन्यैः पोतवणिग्भिरित्यर्थः । गाथा छन्दः । तत्तल्लक्षणं तु तत्प्रकरणे ज्ञातव्यमिति न लिख्यते ॥ एवमाचरितमङ्गलः संप्रति गुरुलघुविवर्त छन्दःशास्त्रं मन्वानस्तद्द्यव्यवस्थां कुर्वनाह
दीहो संजुत्तपरो बिन्दुजुओ पाडिओ अ चरणन्ते ।
स गुरू वङ्क दुमत्तो अण्णो लहु होइ सुद्ध एककलो ॥ २॥ . १. 'पढम' इति रविकरः. २. 'प्राप्तोऽपि विमल' इति रवि०. ३. 'नागः' इति रवि०.