________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् ।
चेतः सहजेन त्वं चञ्चलं सुन्दरीहदे वलत् ।
पदमपि न ददासि अधम क्रीडसि पुनरुल्लसत् ॥] हे चेतः, त्वं स्वभावादेव चञ्चलमसि इदानीं तु सुन्दरीरूपे हदे पतत् (वलत्) पदमपि नान्यत्र ददासि । अतस्तव सहजमपि चाश्चल्यं गतमिति भावः । किं च रे अधम उल्लसत्पुनस्तत्रैव क्रीडसि । नापयासि तत इति भावः । कस्यांचिदप्राप्यायामासक्तस्य कस्यचिद्वचनम् । अत्र हसंयोगपूर्वस्य रि इत्यस्य लघुत्वम् । तथा ह्रसंयोगपूर्वस्य उकारस्य लघुत्वम् । गुरुत्वे छन्दोभङ्गः । दोहा छन्दः ॥ पुनरपि विकल्पान्तरमाह
जइ दीहो विअ वण्णो लहु जीही पढइ सो वि लहू । वण्णो वि तुरिअपढिओ दोत्तिण्णि वि एक जाणेहु ॥ ५॥
यदि दीर्घमपि वर्ण लघु जिह्वा पठति सोऽपि लघुः ।
वर्णी (वर्णा वा) अपि त्वरितपठिता द्वौ त्रयो वा एकं जानीत ॥] यदि दीर्घमपि गुरुमपि वर्ण लघु कृत्वा जिह्वा पठति तदा तं वर्ण लघु जानीत । किं च वर्णी त्वरितपठितौ वर्णा वा त्वरितपठिता द्वौ वा त्रयो वा एक एव वर्ण इति जा. नीत । गाथा छन्दः ॥ उदाहरणमाह । जहा
अरेरे वाहहि कान्ह णाव छोटि डगमग कुगति ण देहि । तइ इथि णदिहिं सँतार देइ जो चाहसि सो लेहि ॥
[अरेरे वाहय कृष्ण नावं सूक्ष्मां डगमग कुंगति न देहि । - त्वमस्यां नद्यां संतारं दत्त्वा यदपेक्षसे तगृहाण ॥] अत्र अरे रे इति संबोधनद्वयं त्वरया प्रयुज्यते । वाहय कृष्ण नावं सूक्ष्माम् । डगमगेत्यनुकरणम् । चञ्चलायामेतस्यां नावि जलभरणेन कुगति मा देहि । त्वमेवैतस्यां नद्यां यमुनायां संतारं पारगमनं दत्त्वा आतरत्वेन यदपेक्षसे तदेव गृहाण । मनोभिलषितमालिङ्गनचुम्बनादिसुखमसंकोचं गृहीत्वा पारं दर्शयेति भीतबल्लवीवचनम् । अत्र त्वरितपठने वर्णानामेकत्वम् । तथात्वे छन्दोभङ्गः । दोहा छन्दः ॥ छन्दोग्रन्थस्योपादेयतां दर्शयति
जैम ण सहइ कणअतुला तिलतुलिअं अद्धअद्धेण ।
तेम ण सहइ सवणतुला अवछन्दं छन्दभङ्गेण ॥ ६ ॥ १. 'जीहा' रवि०. २. 'यदि दीर्घोऽपि वर्णो लघु जिह्वया पठ्यते' रवि०..३. 'वर्णोऽपि त्वरितपठितो' रवि०. ३. 'रेरे' रवि०. ४. 'क्षुद्रां' रवि०. ५. 'दुःखं' रवि०. ६. 'संतार्य यत्प्रार्थयसि' रवि०. ७. 'नाविकबुझ्या रे इति संबोधनं युक्तम् । प्रथमप्रतीके लघुजिह्वापाठालघुत्वम् । द्वितीयप्रतीके डकारगकारमकाराणां त्वरितपठितानामेकवर्णता' रवि०.