________________
काव्यमाला।
अथ चतुर्दशाक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्ते । तत्र प्रथमं वासन्ती छन्दः
मस्तो मो मो गौ यदि गदिता वासन्तीयम् ॥ १७९ ॥ मगणतगणनगणमगणैर्गुरुद्वयेन च वासन्तीछन्दः ॥
यथा
भ्राम्यद्भुङ्गीनिर्भरमधुरालापोद्गीतैः
श्रीखण्डानेरद्भुतपवनैर्मन्दान्दोला। लीलालोला पल्लवविलसद्धस्तोल्लासैः
कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥' उद्ववणिका यथा-sss, ssi, Im, sss, ss, १४४४=५६॥ . अथासंबाधाछन्दः
मो गो गो नौ मः शरनवभिरसंबाधा ॥ १८० ॥ यत्र पूर्व मगणस्ततो गुरुद्वयम्, ततश्च नौ नगणद्वयम् , अनन्तरं मगणो भवति, शराः पश्च, तेन पञ्चभिर्नवभिश्च यत्र विरतिर्भवति तदसंबाधाछन्दः ॥ यथा
'वीर्याग्नौ येन ज्वलति रतिरसाक्षिप्ते
दैत्येन्द्र जाता धरणिरियमसंबाधा । धर्मस्थित्यर्थं प्रकटिततनुरभ्यर्थ्यः
साधूनां बाधां प्रशमयतु कंसारिः ॥' उध्वणिका यथा-sss, ss, m,, sss, १४४४-५६ ॥ असंबाधा निवृत्ता ॥ अथापराजिता छन्द:
ननरसलघुगैः स्वरैरपराजिता ॥ १८१ ॥ नगणयुगलरगणसगणलघुगुरुभिः स्वरैः सप्तभिः कृतविश्रामापराजिता ॥ यथा
'यदनवधिभुजप्रतापकृतास्पदा
यदुनिचयचमूः परैरपराजिता। व्यजयत समरे समस्तरिपुत्र
। स जयति जगतां गतिर्गरुडध्वजः ॥' उद्दवणिका यथा-॥,, sis, us, 15, १४४४-५६ ॥ अपराजिता निवृत्ता॥